________________
२८२
વન્યાલોક ___ इत्यादौ । अत्र ह्यद्भुतरसानुगुणमेकचुलके मत्स्यकच्छपदर्शनं छायातिशयं पुष्णाति । तत्र ह्येकचुलके सकलजलनिधिसन्निधानादपि दिव्यमत्स्यकच्छपदर्शनमक्षुण्णत्वादद्भुतरसानुगुणतरम् । क्षुण्णं हि वस्तु लोकप्रसिद्धयाद्भुतमपि नाश्चर्यकारि भवति । न चाक्षुण्णं वस्तूपनिबध्यमानमद्भुतरसस्यैवानुगुणं यावद्रसान्तरस्यापि । तद् यथा
सिज्जइ रोमञ्चिज्जइ वेवइ रच्छातुलग्गपडिलग्गो । सोपासो अज वि सुहअ तीइ जेणासि वोलीणो ॥ (स्विद्यति रोमाञ्चति वेपते रथ्यातुलाग्रप्रतिलग्नः ।।
स पार्योऽद्यापि सुभग येनास्यतिक्रान्तः ॥ इति च्छाया) एतद् गाथार्थाद् भाव्यमानाधा रसप्रतीतिर्भवति, सा त्वां दृष्ट्वा स्विद्यति रोमाञ्चते वेपते इत्येवंविधादर्थात् प्रतीयमानान्मनागपि नो जायते । __ तदेवं ध्वनिप्रभेदसमाश्रयेण यथा काव्यार्थानां नवत्वं जायते तथा प्रतिपादितम् । गुणीभूतव्यङ्ग्यस्यापि त्रिभेदव्यङ्ग्यापेक्षया ये प्रकारास्तत् समाश्रयेणापि काव्यवस्तूनां नवत्वं भवत्येव । तत्त्वतिविस्तारकारीति नोदाहृतम्, सहृदयैः स्वयमुत्प्रेक्षणीयम् ॥५॥
ध्वनेरित्थं गुणीभूतव्यङ्गयस्य च समाश्रयात् ।
न काव्यार्थविरामोऽस्ति यदि स्यात्प्रतिभागुणः ॥६॥ सत्स्वपि पुरातनकविप्रबन्धेषु यदि स्यात्प्रतिभागुणः । तस्मिंस्त्वसति न किञ्चिदेव कवेर्वस्त्वस्ति । बन्धच्छायाप्यर्थद्वयानुरूपशब्दसन्निवेशे'ऽर्थप्रतिभानाभावे कथमुपपद्यते । अनपेक्षितार्थविशेषाक्षररचनैव बन्धच्छायेति नेदं नेदीयः सहृदयानाम् । एवं हि सत्यर्थानपेक्षचतुरमधुरवचनरचनायामपि काव्यव्यपदेशः प्रवर्तेत । शब्दार्थयोः
१. 'सह अतीइ' नि०। २. 'प्रतीयमानात्मना' नि० । ३. 'सन्निवेशोऽर्थ' बा० प्रि०। ४. 'प्रवर्तते' नि०।