________________
....... - पन्यास हअसोन्हाएँ तह कहो जह कण्डकरण्डअं वहइ ॥ (करिणीवैधव्यकरो मम पुत्र एककाण्डविनिपाती।
हतस्नुषया तथा कृतो यथा काण्डकरण्डकं वहति ॥ इति च्छाया) एवमादिष्वर्थेषु सत्स्वप्यनालीढतैव ।
यथा व्यङ्ग्यभेदसमाश्रयेण ध्वनेः काव्यार्थानां नवत्वमुत्पद्यते, तथा व्यञ्जकभेदसमाश्रयेणापि । तत्तु ग्रन्थविस्तरभयान लिख्यते । स्वयमेव सहृदयै-रभ्यूह्यम् ॥४॥ अत्र च पुनः पुनरुक्तमपि सारतयेदमुच्यते
व्यङ्गयव्यञ्जकभावेऽस्मिन्विविधे सम्भवत्यपि ।
रसादिमय एकस्मिन्कविः स्यादवधानवान् ॥५॥ अस्मिन्नर्थानन्त्यहेतौ व्यङ्ग्यव्यञ्जकभावे 'विचित्रे शब्दानां सम्भवत्यपि कविरपूर्वार्थलाभार्थी' रसादिमय एकस्मिन् व्यङ्ग्यव्यञ्जकभावे यत्नादवदधीत । रसभावतदाभासरूपे हि व्यङ्गये तद्व्यञ्जकेषु च यथानिर्दिष्टेषु वर्णपदवाक्यरचनाप्रबन्धेष्ववहितमनसः कवेः सर्वमपूर्वं काव्यं सम्पद्यते । तथा च रामायणमहाभारतादिषु सङ्ग्रामादयः पुनः पुनरभिहिता अपि नवनवाः प्रकाशन्ते ।
प्रबन्धे चाङ्गी रस एक एवोपनिबध्यमानोऽर्थविशेषलाभं छायातिशयं च पुष्णाति । कस्मिन्निवेति चेत्, यथा रामायणे यथा वा महाभारते । रामायणे हि करुणो रसः स्वयमादिकवीना सूत्रितः “शोकः श्लोकत्वमागतः' इत्येवंवादिना । नियूंढश्च स एव सीतात्यन्तवियोगपर्यन्तमेव स्वप्रबन्धमुपरचयता। ___महाभारतेऽपि शास्त्रकाव्यरूपच्छायान्वयिनि वृष्णिपाण्डवविरसावसानवैमनस्यदायिनी समाप्तिमुपनिबध्नता महामुनिना वैराग्यजननतात्पर्य प्राधान्येन स्वप्रबन्धस्य दर्शयता मोक्षलक्षणः पुरुषार्थ शान्तो रसश्च मुख्यतया विवक्षाविषयत्वेन सूचितः । एतच्चांशेन विवृत्तमेवान्याख्याविधायिभिः । स्वयं चोद्गीर्णं तेनोदीर्णमहामोहमनमुज्जिहीर्षता लोकमतिविमलज्ञानालोकदायिना लोकनाथेन
१. 'विचित्रं' बा० प्रि०। २. 'शब्दानां' us AO, ही मां नथी. ३. 'अपूर्वलाभार्थे' नि०, दी० ।