________________
२७०
દવન્યાલોક चतुर्थ उद्योतः एवं ध्वनि सप्रपञ्चं विप्रतिपत्तिनिरासार्थं व्युत्पाद्य, तद्व्युत्पादने प्रयोजनान्तरमुच्यते
ध्वनेर्यः सगुणीभूतव्यङ्गयस्याध्वा प्रदर्शितः ।
अनेनानन्त्यमायाति कवीनां प्रतिभागुणः ॥१॥ य एष ध्वनेर्गुणीभूतव्यङ्ग्यस्य च मार्गः प्रकाशितस्तस्य फलान्तरं कविप्रतिभानन्त्यम् ॥१॥ कथमिति चेत्
अतो ह्यन्यतमेनापि प्रकारेण विभूषिता। वाणी नवत्वमायाति पूवार्थान्वयवत्यपि ॥२॥ अतो' ध्वनेरुक्तप्रभेदमध्यादन्यतमेनापि प्रकारेण विभूषिता सती वाणी पुरातनकविनिबद्धार्थसंस्पर्शवत्यपि नवत्वमायाति । तथाह्यविवक्षितवाच्यस्य ध्वनेः प्रकारद्वयसमाश्रयणेन नवत्वं पूर्वार्थानुगमेऽपि यथा
स्मितं किञ्चिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोर्मिसरसः ।२ . गतानामारम्भः किसलयितलीलापरिमलः . स्पृश्यन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः ॥ इत्यस्य
सविभ्रमस्मितोद्भेदा लोलाक्ष्यः प्रस्खलगिरः ।
नितम्बालसगामिन्यः कामिन्यः कस्य न प्रियाः ॥ इत्येवमादिषु श्लोकेषु सत्स्वपि तिरस्कृतवाच्यध्वनिसमाश्रयेणापूर्वत्वमेव प्रतिभासते।
तथा
यः प्रथमः प्रथमः स तु तथा हि हतहस्तिबहलपललाशी । श्वापदगणेषु सिंहः सिंहः केनाधरीक्रियते ।।
१. 'अतो हि' नि०, दी। २. 'विलासोक्तिसरसः' नि०। ३. 'परिकरः' नि०, दी।