________________
૨૫૬
....... - न्या विवक्षितत्वाविवक्षितत्वं यथा-.....
उप्पहजाआए असोहिणीएँ फलकुसुमपत्तरहिआए । वेरीएँ वई देन्तो पामर हो ओहसिज्जिहसि ॥ (उत्पथजाताया अशोभनायाः फलकुसुमपत्ररहितायाः ।
बदर्या वृत्तिं ददत् पामर भो अवहसिष्यसे ।) इति च्छाया । अत्र हि वाच्यार्थो नात्यन्तं सम्भवी न चासम्भवी' । तस्माद्वाच्यव्यङ्गययोः प्राधान्याप्राधान्ये यत्नतो निरूपणीये॥४१॥ गुणप्रधानभावाभ्यां व्यङ्गयस्यैवं व्यवस्थिते । काव्ये उभे ततोऽन्यद्यत् तच्चित्रमभिधीयते ॥४॥ चित्रं शब्दार्थभेदेन द्विविधं च व्यवस्थितम् । तत्र किञ्चिच्छब्दचित्रं वाच्यचित्रमतः परम् ॥४३॥
व्यङ्ग्यस्यार्थस्य प्राधान्ये 'ध्वनिसंज्ञितकाव्यप्रकारः, गुणभावे तु -गुणीभूतव्यङ्ग्यता । ततोऽन्यद्रसभावादितात्पर्यरहितं व्यङ्ग्यार्थविशेषप्रकाशनशक्तिशून्यं च काव्यं केवलवाच्यवाचकवैचित्र्यमात्राश्रयेणोपनिबद्धधमालेख्यप्रख्यं, यदाभासते तच्चित्रम् । न तन्मुख्यं काव्यम् । काव्यानुकारो ह्यसौ । तत्र किञ्चिच्छब्दचित्रम्, यथा दुष्करयमकादि । वाच्यचित्रं ततः शब्दचित्रादन्यद् व्यङ्ग्यार्थसंस्पर्शरहितं प्राधान्येन वाक्यार्थतया स्थितं रसादितात्पर्यरहितमुत्प्रेक्षादि । ___ अथ किमिदं चित्रं नाम ? यत्र न प्रतीयमानार्थसंस्पर्शः । प्रतीयमानो ह्यर्थस्त्रिभेदः प्राक् प्रदर्शितः । तत्र, यत्र वस्त्वलङ्कारान्तरं वा व्यङ्ग्यं नास्ति स नाम चित्रस्य कल्प्यतां विषयः । यत्र तु रसादीनामविषयत्वं स काव्यप्रकारो न सम्भवत्येव । यस्मादवस्तुसंस्पर्शिता काव्यस्य नोपपद्यते । वस्तु च सर्वमेव जगद्गतमवश्यं कस्यचिद् रसस्य 'भावस्य वाङ्गत्वं प्रतिपद्यते, 'अन्ततो विभावत्वेन । चित्तवृत्तिविशेषा हि रसादयः । न च तदस्ति वस्तु किञ्चिद् यन्न चित्तवृत्तिविशेषमुपजनयति । तदनुत्पादने वा कविविषयतैव तस्य न स्यात् । कविविषयश्च चित्रतया कश्चिनिरूप्यते ।
१. नि०, दी० में 'न चासम्भवी' इतना पाठ नहीं है। २. 'ध्वनिसंज्ञितः' दी० । 'ध्वनिसंजित काव्यप्रकारः' नि० । ३. 'कस्यचिद्रसस्य चानत्वं' नि० । ४. 'अन्ततो' is नि भनथी.