________________
૨૫૨
વન્યાલોક ___ न च केवलं गुणीभूतव्यङ्ग्यान्येव पदान्यलक्ष्यक्रमव्यङ्ग्यध्वनेर्व्यञ्जकानि, यावदर्थान्तरसङ्क्रमितवाच्यानि ध्वनिप्रभेदरूपाण्यपि । यथात्रैव श्लोके 'रावण' इत्यस्य
प्रभेदान्तररूपव्यञ्जकत्वम् । यत्र तु वाक्ये रसादितात्पर्यं नास्ति गुणीभूतव्यङ्ग्यैः पदैरुद्रासितेऽपि तत्र गुणीभूतव्यङ्ग्यतैव समुदायधर्मः । यथा
राजानमपि सेवन्ते विषमप्युपभुञ्जते ।
रमन्ते च सह स्त्रीभिः कुशलाः खलु मानवाः ।। इत्यादौ ।
वाच्यव्यङ्ग्ययोश्च प्राधान्याप्राधान्यविवेके परः प्रयत्नो विधातव्यः । येन ध्वनिगुणीभूतव्यङ्गययोरलङ्काराणां चासङ्कीर्णो विषयः सुज्ञातो भवति । अन्यथा तु प्रसिद्धालङ्कारविषय एव व्यामोहः प्रवर्तते । यथा
लावण्यद्रविणव्ययो न गणितः क्लेशो महान् स्वीकृतः "स्वच्छन्दस्य सुखं जनस्य वसतश्चिन्तानलो दीपितः । एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता
कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ॥ इत्यत्र 'व्याजस्तुतिरलङ्कार इति व्याख्यायितः केनचित्, तन्न चतुरस्रम् । यतोऽस्याभिधेयस्य, एतदलङ्कारस्वरूपमात्रपर्यवसायित्वे न सुश्लिष्टता । यतो न तावदयं रागिणः कस्यचिद्विकल्पः । तस्य ‘एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता' इत्येवंविधोक्त्यनुपपत्तेः । नापि नीरागस्य । तस्यैवंविधविकल्पपरिहारैकव्यापारत्वात् । __न चायं श्लोकः क्वचित् प्रबन्ध इति श्रूयते, येन तत्प्रकरणानुगतार्थतास्यपरिकल्प्यते ।
तस्मादप्रस्तुतप्रशंसेयम् । यस्मादनेन वाक्येन गुणीभूतात्मना निःसामान्यगुणावलेपाध्मातस्य निजमहिमोत्कर्षजनितसमत्सरजनज्वरस्य विशेषज्ञमात्मनो न कञ्चिदेवापरं पश्यतः परिदेवितमेतदिति प्रकाश्यते । तथा चायं धर्मकीर्तेः श्लोक इति प्रसिद्धिः । सम्भाव्यते च तस्यैव । यस्मात्
१. 'ध्वनिप्रभेदान्तररूपस्य' नि०, दी० । २. 'तथाहि' नि०, दी। ३. अर्जितः' नि०। ४. 'स्वच्छन्दं चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः' नि० । 'सखीजनस्य' दी। ५. 'इति । अत्र' दी। ६. 'पर्यवसायित्येन' नि.।