________________
૨૫૦
દવન્યાલોક पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् ।
सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ।। यथा च
प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता ।
न किश्चिदूचे चरणेन केवलं लिलेख वाष्पाकुललोचना भुवम् ।। इत्यत्र ‘निर्वचनं जघान', 'न किश्चिदूचे' इति प्रतिषेधमुखेन व्यङ्ग्यस्यार्थस्योक्त्या किश्चिद् विषयीकृतत्वाद् गुणीभाव एव शोभते । 'यदा वक्रोक्तिं विना व्यङ्ग्योऽर्थस्तात्पर्येण प्रतीयते तदा तस्य प्राधान्यम् । यथा ‘एवंवादिनि देवर्षों' इत्यादौ । इह पुनरुक्तिभनयास्तीति वाच्यस्यापि प्राधान्यम् । तस्मान्नात्रानुरणनरुपव्यङ्ग्यध्वनिव्यपदेशो विधेयः ।।४०॥
प्रकारोऽयं गुणीभूतव्यङ्गयोऽपि ध्वनिरूपताम् ।
धत्ते रसादितात्पर्यपर्यालोचनया पुनः ॥४१॥ गुणीभूतव्यङ्गयोऽपि काव्यप्रकारो रसभावादितात्पर्यालोचने पुननिरेव सम्पद्यते । यथात्रैवानन्तरोदाहृते श्लोकद्वये । यथा च
दुराराधा राधा सुभग यदनेनापि मृजतस्तवैतत्प्राणेशाजघनवसनेनाश्रु पतितम् । कठोरं स्त्रीचेतस्तदलमुपचारैर्विरम हे क्रियात्कल्याणं वो ' हरिरनुनयेष्वेवमुदितः ॥ एवं स्थिते च ‘न्यक्कारो ह्ययमेव' इत्यादि श्लोकनिर्दिष्टानां पदानां व्यङ्ग्यविशिष्टवाच्यप्रतिपादनेऽप्येतद्वाक्यार्थीभूतरसापेक्षया व्यञ्जकत्वमुक्तम् । न तेषां पदार्थानामर्थान्तरसमितवाच्यध्वनिभ्रमो विधातव्यः । विवक्षितवाच्यत्वात् तेषाम् । तेषु हि व्यङ्ग्यविशिष्टत्वं वाच्यस्य प्रतीयते न तु व्यङ्ग्यरूपपरिणतत्वम् । तस्माद्वाक्यं तत्र ध्वनिः, पदानि तु गुणीभूतव्यङ्ग्यानि ।।
१. 'तस्माद् यत्रोक्तिं विना' दी० । २. 'तत्र' दी। ३. 'अस्ति नि०। ४. 'यथात्रैवोदाहृतेऽनन्तरश्लोकद्वये । यथा' दी० । ५. 'हरिरनुतयेष्वेवमुदितः' नि०। ६. 'न त्वेषां' दी।