________________
....... चन्याला लक्ष्मी दुहिदा जामाउओ हरी तंस घरिणिआ गंगा । अमिअमिअङ्का च सुआ अहो कुडुबं महोअहिणो ॥ (लक्ष्मीर्दुहिता जामाता हरिस्तस्य गृहिणी गङ्गा । अमृतमृगाङ्कौ च सुतावहो कुटुम्बं महोदधेः ॥ -इति च्छाया ॥३६॥) वाच्यालङ्कारवर्गोऽयं व्यङ्गयांशानुगमे सति ।
प्रायेणैव परां छायां बिभ्रल्लक्ष्ये निरीक्ष्यते ॥३७॥ वाच्यालङ्कारवर्गोऽयं व्यङ्गयांशस्यालङ्कारस्य वस्तुमात्रस्य वा यथायोगमनुगमे सति च्छायातिशयं बिभ्रल्लक्षणकारैरेकदेशेन दर्शितः । स तु तथारूपः प्रायेण सर्व एव परीक्ष्यमाणो लक्ष्ये निरीक्ष्यते । ___ तथा हि दीपकसमासोक्त्यादिवदन्येऽप्यलङ्काराः प्रायेण व्यङ्ग्यालङ्कारान्तरवस्त्वन्तरसंस्पर्शिनो दृश्यन्ते । यतः प्रथमं तावदतिशयोक्तिगर्भता सर्वालङ्कारेषु शक्यक्रिया । कृतैव च सा महाकविभिः कामपि काव्यच्छविं पुष्यति । कथं ह्यतिशययोगिता स्वविषयौचित्येन क्रियमाणा सती काव्ये नोत्कर्षमावहेत् । भामहेनाप्यतिशयोक्तिलक्षणे यदुक्तम्
सैषा सर्वैव वक्रोक्तिरनयाऽर्थो विभाव्यते ।
यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ॥ इति तत्रातिशयोक्तिर्यमलङ्कारमधितिष्ठति कविप्रतिभावशात्तस्य चारुत्वातिशययोगोऽन्यस्य त्वलङ्कारमात्रतैवेति सर्वालङ्कारशरीरस्वीकरणयोग्यत्वेनाभेदोपचारात् सैव सर्वालङ्काररूपा, इत्ययमेवार्थोऽवगन्तव्यः ।।
तस्याश्चालङ्कारान्तरसङ्कीर्णत्वं कदाचिद्वाच्यत्वेन, कदाचिद् व्यङ्ग्यत्वेन । व्यङ्गयत्वमपि कदाचित् प्राधान्येन कदाचिद् गुणभावेन । तत्राद्ये पक्षे वाच्यालङ्कारमार्गः । द्वितीये तु ध्वनावन्तर्भावः । तृतीये तु गुणीभूतव्यङ्ग्यरूपता । ___ अयं च प्रकारोऽन्येषामप्यलङ्काराणामस्ति । तेषां तु न सर्वविषयोऽतिशयोक्तेस्तु सर्वालङ्कारविषयोऽपि सम्भवतीत्ययं विशेषः । येषु चालङ्कारेषु सादृश्यमुखेन तत्त्वप्रतिलम्भः, यथा रूपकोपमातुल्ययोगितानिदर्शनादिषु तेषु गम्यमानधर्ममुखेनैव यत्सादृश्यं तदेव शोभातिशयशालि भवतीति ते सर्वेऽपि चारुत्वातिशययोगिनः सन्तो
१. 'वा' नि० में नहीं है। ३. 'पुष्यतीति' नि०, दी०। ५. 'प्रकारे' दी।
२. 'व्यङ्ग्यालङ्कारवस्त्वन्तरसंस्पर्शिनो' नि०, दी० । ४. 'सर्वत्र' नि०, दी०।। ६. 'तु' पाठ नि०, दी० में नहीं है।