________________
૧૮૬
વિન્યાલોક यथा वा
ये जीवन्ति न मान्ति ये स्ववपुषि प्रीत्या प्रनृत्यन्ति ये' प्रस्यन्दिप्रमदाश्रवः पुलकिता दृष्टे गुणिन्यूजिते । हा धिक् कष्टमहो क्व यामि शरणं तेषां जनानां कृते
नीतानां प्रलयं शठेन विधिना साधुद्विषः पुष्यता । इत्यादौ । पदपौनरुक्त्यं च व्यञ्जकत्वापेक्षयैव कदाचित् प्रयुज्यमानं शोभामावहति । यथा
यद् वञ्चनाहितमतिर्बहुचाटुगर्भ कार्योन्मुखः खलजनः कृतकं ब्रवीति । तत् साधवो न न विदन्ति, विदन्ति किन्तु
कर्तुं वृथा प्रणयमस्य न पारयन्ति । इत्यादौ । १६.४ कालस्य व्यञ्जकत्वं यथा
समविसमणिव्विसेसा समन्तओ मन्दमन्दसंआरा । अइरा होहिन्ति पहा मणोरहाणं पि दल्लंघा ॥ (समविषमनिर्विशेषाः समन्ततो मन्दमन्दसञ्चाराः ।
अचिराद् भविष्यन्ति पन्थानो मनोरथानामपि दुर्लद्ध्याः ॥ -इति च्छाया) अत्र ह्यचिराद् भविष्यन्ति पन्थान इत्यत्र भविष्यन्तीत्यस्मिन् पदे प्रत्ययः कालविशेषाभिधायी रसपरिपोषहे तुः प्रकाशते ।अयं हि गाथार्थः प्रवासविप्रलम्भशृङ्गारविभावतया विभाव्यमानां रसवान् । यथात्र प्रत्ययांशो व्यञ्जकस्तथा क्वचित् प्रकृत्यंशोऽपि दृश्यते यथा
तद् गेहं नतभित्ति मन्दिरमिदं लब्धावकाशं दिवः सा धेनुर्जरती चरन्ति करिणामेता घनाभा घटाः । स क्षुद्रो मुसलध्वनिः कलमिदं सङ्गीतकं योषिता
माश्चर्य दिवसैर्द्विजोऽयमियती भूमिं समारोपितः ॥ अत्र श्लोके 'दिवसै' रित्यस्मिन् पदे प्रकृत्यंशोऽपि द्योतकः ।
सर्वनाम्नां च व्यञ्जकत्वं यथानन्तरोक्ते' श्लोके । अत्र च सर्वनाम्नामेव व्यञ्जकत्वं हदि व्यवस्थाप्य कविना क्वेत्यादिशब्दप्रयोगो न कृतः । - अनया दिशा सहदयैरन्येऽपि व्यञ्जकविशेषाः स्वयमुत्प्रेक्षणीयाः । एतच्च सर्वं पदवाक्यरचनाद्योतनोक्त्यैव गतार्थमपि वैचित्र्येण व्युत्पत्तये पुनरुक्तम् । १. 'च' बा. प्रि०। २. 'यथात्रैवानन्तरोक्ते' नि० ।