________________
૧૮૪
(अन्यत्र व्रज बालक स्नान्ती किं मां प्रलोकयस्येतत् । भो जायाभीरुकाणां तटमेव न भवति ॥ - इति च्छाया)
कृत - 'क'- प्रयोगेषु प्राकृतेषु तद्धितविषये व्यञ्जकत्वमावेद्यत एव | अवज्ञातिशये
'कः'' । समासानां च वृत्त्यौचित्येन विनियोजने ।
निपातानां व्यञ्जकत्वं यथा
अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे । नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ।।
इत्यत्र 'च' शब्दः ।
यथा वा
मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । मुखमंसविवर्तिपक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥
अत्र तु शब्दः ।
निपातानां प्रसिद्धमपीह द्योतकत्वं रसापेक्षयोक्तमिति द्रष्टव्यम् । उपसर्गाणां व्यञ्जकत्वं यथा
१६.३ नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः, प्रस्निग्धाः क्वचिदिद्भुदीफलभिदः सूच्यन्त एवोपलाः । विश्वासोपरामादभिन्नगतयः शब्दं सहन्ते मृगाः, तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ इत्यादौ ।
द्वित्राणां चोपसर्गाणामेकत्र पदे यः प्रयोगः सोऽपि रसव्यक्त्यनुगुणतयैव
निर्दोषः । यथा
ધ્વન્યાલોક
“प्रभ्रश्यत्युत्तरीयत्विषि तमसि समुद्वीक्ष्य वीतावृतीन् द्राग् जन्तून्”
इत्यादौ ।
यथा वा
"मनुष्यवृत्त्या समुपाचरन्तम् ।”
इत्यादौ । ३
निपातानामपि तथैव । यथा
'अहो बतासि स्पृहणीयवीर्यः । ' इत्यादौ ।
१. ' अन्यत्र व्रज बालक तृष्णायमानः कथमालोकयस्येतत् । भो जायाभीरुकाणां युष्माकं सम्बन्ध एव न भवति ॥ - दी०
२. 'अवज्ञातिशये कः' या पाठ नि.ही. भां नथी.
३. नि० भां यः स्वप्ने सदपानतस्य इत्यादौ च ।' मेटल वधारे छे.