________________
૧૮૨
વન્યાલોક एवंविधस्य व्यञ्जकभूयस्त्वे च घटमाने काव्यस्य सर्वातिशायिनी बन्धच्छाया समुन्मीलति । यत्र हि व्यङ्ग्यावभासिनः पदस्यैकस्यैव तावदाविर्भावस्तत्रापि काव्ये कापि बन्धच्छाया किमुत यत्र तेषां बहूनां समवायः । यथात्रानन्तरोदितश्लोके । अत्र हि 'रावण' इत्यस्मिन् पदे, अर्थान्तरसङ्कमितवाच्येन ध्वनिप्रभेदेनालङ्कृतेऽपि पुनरनन्तरोक्तानां व्यञ्जकप्रकाराणामुद्भासनम् ।
दृश्यन्ते च महात्मनां प्रतिभाविशेषभाजां बाहुल्येनैवंविधा बन्धप्रकाराः । यथा महर्षासस्य- अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः ।
श्वः श्वः पापीयदिवसा पृथिवी गतयौवना । अत्र हि कृत्तद्धितवचनैरलक्ष्यक्रमव्यङ्ग्यः, 'पृथिवी गतयौवना' इत्यनेन चात्यन्ततिरस्कृतवाच्यो ध्वनिः प्रकाशितः । ___ एषां च सुबादीनामेकैकशः समुदितानां च व्यञ्जकत्वं महाकवीनां प्रबन्धेषु प्रायेण दृश्यते । सुबन्तस्य व्यञ्जकत्वं यथा
तालैः शिञ्जद्वलयसुभगैः कान्तया नर्तितो मे
यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः ॥ १६.२ तिङ्न्तस्य यथा
अवसर रोउं चि अणिम्मिआई मा पुंस मे ह अच्छीई । दसणमत्तुम्भत्तेहिं जहिं हिअअं तुह ण णाअम् ॥ (अपसर रोदितुमेव निर्मिते मा पुंसय हते अक्षिणी मे। दर्शनमात्रोन्मत्ताभ्यां याभ्यां तव हृदयमेवंरूपं न ज्ञातम् ॥
-इति च्छाया) यथा वा
मा पन्थं रुन्धीओ अवेहि बालअ अहोसि अहिरीओ। अम्हेअ णिरिच्छाओ सुण्णघरं रखिदव्वं णो ॥ (मा पन्थानं रुधः अपेहि बालक अप्रौढ अहो असि अहीकः ।
वयं निरिच्छा' शून्यगृहं रक्षितव्यं नः ॥ -इति च्छाया) सम्बन्धस्य यथा
अण्णत्त बच्च बालक अन्हाअन्तिं किं मं पुलोएसिएअम् ।
हो जाआभीरुआणं तडं विअ ण होई ॥ . १. 'प्रायेणान्यत्रापि नि०। २. 'मोत्पुंसय' नि०, दी। ३. 'हृदयं तव न ज्ञातम्' दी० । ४. 'वयं परतन्त्राः यतः शून्यगृहं मामकं रक्षणीयं वर्तते।' बालप्रिया, नि०।