________________
૧૫૦
तृतीय उद्योतः
एवं व्यङ्ग्यमुखेनैव ध्वनेः प्रदर्शिते सप्रभेदे स्वरूपे पुनर्व्यञ्जकमुखेनैतत् '
प्रकाश्यते
अविवक्षितवाच्यस्य पदवाक्यप्रकाशता ।
तदन्यस्यानुरणनरूपव्यङ्ग्यस्य च ध्वनेः || १॥
१.१-अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे पदप्रकाशता यथा
महर्षेर्व्यासस्य
'सप्तैताः समिधः श्रियः । '
यथा वा कालिदासस्य
'कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायाम् ।'
यथा वारे
ધ્વન્યાલોક
'किमिव हि मधुराणां मण्डनं नाकृतीनाम् ।'
एतेषूदाहरणेषु 'समिध:' इति 'सन्नद्धे' इति 'मधुराणाम्' इति च पदानि व्यञ्जकत्वाभिप्रायेणैव कृतानि ।
१.२ - तस्यैवार्थान्तरसङ्क्रमितवाच्ये यथा
'रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम् ।'
अत्र रामेण इत्येतत् पदं साहसैकरसत्वादिव्यङ्गयाभिसंक्रमितवाच्यं व्यञ्जकम् ।
यथा वा
एमेअ जणो तिस्सा देउ कवोलोपमाइ ससिबिंबम् । परमत्थविआरे उण चंदो चंदो विअ वराओ | (एवमेव जनस्तस्या ददाति कपोलोपमायां शशिबिम्बम् । परमार्थविचारे पुनश्चन्द्रश्चन्द्र एव वराकः ॥ इति च्छाया) अत्र द्वितीयश्चन्द्रशब्दोऽर्थान्तरसङ्क्रमितवाच्यः ।
: -अविवक्षितवाच्यस्यात्यन्ततिरस्कृतवाच्ये प्रभेदे वाक्यप्रकाशता यथाया निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ||
/ अनेन वाक्येन निशार्थो न च जागरणार्थः कश्चिद् विवक्षितः । किं तर्हि ? तत्त्वज्ञाना
वहितत्वम् अतत्त्वपराङ्मुखत्वं च मुनेः प्रतिपाद्यत इति तिरस्कृतवाच्यस्यास्य व्यञ्जकत्वम्।
१. 'तत्' नि०, दी० । २. 'स्वप्रभेद' नि० । ३. 'तस्यैव' नि, दी० भां वधु छे.
४. ' (न) निशार्थो न (वा) जागरणार्थ:' दी० । 'न जागरणार्थः ' नि० ।