________________
૧૪૮
...... वन्यास (वानीरकुञ्जोड्डीनशकुनिकुलकोलाहलं शृण्वन्त्याः ।
गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि ।।इति च्छाया) एवंविधो हि विषयः प्रायेण गुणीभूतव्यङ्ग्यस्योदाहरणत्वेन निर्देक्ष्यते ।
यत्र तु प्रकरणादिप्रतिपत्त्या निर्धारितविशेषो वाच्योऽर्थः पुनः प्रतीयमानाङ्गत्वेनैवाभासते सोऽस्यैवानुरणनरूपव्यङ्ग्यस्य ध्वनेमार्गः । यथा
उच्चिणसु पड़िअ कुसुमं मा घुण सेहालिअं हालिअसुढे । अह दे विषमविरावो ससुरेण सुओ बलअसद्दो ।। (उच्चिनु पतितं कुसुमं मा धुनीहि शेफालिकां हालिकस्नुषे ।
एष ते विषमविरावः श्वशुरेण श्रुतो वलयशब्दः ।। इति च्छाया) अत्र ह्यविनयपतिना सह रममाणा सखी बहिःश्रुतवलयकलकलया सख्या प्रतिबोध्यते । एतदपेक्षणीयं वाच्यार्थप्रतिपत्तये । प्रतिपन्ने च वाच्येऽर्थे' तस्याविनयप्रच्छादनतात्पर्येणाभिधीयमानत्वात् पुनर्व्यङ्ग्याङ्गत्वमेवेत्यस्मिन्ननुरणनरूपव्यङ्ग्यध्वनावन्तर्भावः ॥३॥
एवं विवक्षितवाच्यस्य ध्वनेस्तदाभासविवेके प्रस्तुते सत्यविवक्षितवाच्यस्यापि तं कर्तुमाह
अव्युत्पत्तेरशक्तेर्वा निबन्धो यः स्खलद्गतेः ।
शब्दस्य स च न ज्ञेयः सूरिभिर्विषयो ध्वनेः ॥३२॥ स्खलद्गतेरुपचरितस्य शब्दस्य अव्युत्पत्तेरशक्तेर्वा निबन्धो यः स च न ध्वनेविषयः ।
यतः
सर्वेष्वेव प्रभेदेषु स्फुटत्वेनावभासनम् ।
यद् व्यङ्गयस्याङ्गिभूतस्य तत् पूर्णं ध्वनिलक्षणम् ॥३३॥ तच्चोदाहृतविषयमेव ।
इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके द्वितीय उद्योतः ।
१. नि० मा अर्थे' 415 नथी. २. 'यतश्च' नि०, दी।