________________
૧૩૮
દવન્યાલોક तस्य प्रविरलविषयत्वमाशङ्कयेदमुच्यते. . रूपकादिरलङ्कारवर्गो यो वाच्यतां श्रितः।
स सर्वो गम्यमानत्वं बिभ्रद् भूम्ना प्रदर्शितः ॥२६॥ अन्यत्र वाच्यत्वेन प्रसिद्धो यो रूपकादिरलङ्कारः सोऽन्यत्र प्रतीयमानतया बाहुल्येन प्रदर्शितस्तत्र भवद्भिर्भट्टोद्भटादिभिः । तथा. च सन्देहादिषूपमारूपकातिशयोक्तीनां प्रकाशमानत्वं प्रदर्शितमित्यलङ्कारान्तरस्यालङ्कारान्तरे व्यङ्ग्यत्वं न यत्नप्रतिपाद्यम्
||२६||
इयत् पुनरुच्यत एव
अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।
तत्परत्वं न वाच्यस्य नासौ मार्गो ध्वनेर्मतः ॥२७॥ २७.१ 'अलङ्कारान्तरेषु त्वनुरणनरूपालङ्कारप्रतीतौ सत्यामपि यत्र वाच्यस्य व्यङ्ग्यप्रतिपादनौन्मुख्येन चारुत्वं न प्रकाशते नासौ ध्वनेर्मार्गः । तथा च दीपकालङ्कारे' उपमाया गम्यमानत्वेऽपि तत्परत्वेन चारुत्वस्याव्यवस्थानान्न ध्वनिव्यपदेशः । यथा -
चन्दमऊएहिँ णिसा णलिनी कमलेहिँ कुसुमगुच्छेहिं लआ । हंसेहिँ सरअसोहा कव्वकहा सज्जनेहिँ करइ गरुइ ।। (चन्द्रमयूखैर्निशा नलिनी कमलैः कुसुमगुच्छलता। हंसैश्शारदशोभा काव्यकथा सज्जनैः क्रियते गुर्वी ॥इति च्छाया) इत्यादिषूपमागर्भत्वेऽपि सति वाच्यालङ्कारमुखेनैव चारुत्वं व्यवतिष्ठते न व्यङ्ग्यालङ्कारतात्पर्येण । तस्मात्तत्र वाच्यालङ्कारमुखेनैव काव्यव्यपदेशो न्याय्यः ।
यत्र तु व्यङ्गयपरत्वेनैव वाच्यस्य व्यवस्थानं तत्र व्यङ्ग्यमुखेनैव व्यपदेशो युक्तः । यथा
प्राप्तश्रीरेष कस्मात् पुनरपि मयि तं मन्थखेदं विदध्यानिद्रामप्यस्य पूर्वामनलसमनसो नैव सम्भावयामि । सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयातस्त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः ।।
१. अलङ्कारान्तरस्य रूपकादेरलङ्कारप्रतीतौ' नि०, दी०। २. 'दीपकादावलङ्कारे' नि०, दी०। ३. 'तथा' दी० ।