________________
१३१
-- - - -वन्यास प्रौढोक्तिमात्रनिष्पन्नशरीरः सम्भवी स्वतः।
अर्थोऽपि द्विविधो ज्ञेयो वस्तुनोऽन्यस्य दीपकः ॥२४॥ अर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्ये ध्वनौ यो व्यञ्जकोऽर्थ उक्तस्तस्यापि द्वौ प्रकारौ, कवेः, कविनिबद्धस्य वा वक्तुः प्रौढोक्तिमात्रनिष्पन्नशरीर एकः, स्वतः सम्भवी च द्वितीयः। कविप्रौढोक्तिमात्रनिष्पन्नशरीरो यथा
सजेहि सुरहिमासो ण दाव अप्पेइ जुअइजणलक्खमुहे । अहिणवसहआरमुहे णवपल्लवपत्तले अणंगस्स शरे ॥ (सज्जयति सुरभिमासो न तावदर्पयति युवतिजनलक्ष्यमुखान् ।
अभिनवसहकारमुखान् नवपल्लवपत्रलाननङ्गस्य शरान् ।।इति च्छाया) कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो यथोदाहृतमेव'-'शिखरिणि' इत्यादि । यथा वा
साअरविइण्णजोव्वणहत्थालम्बं समुण्णमन्तेहिं । अन्भुट्ठाणं विअ मम्महस्स दिण्णं तुइ थणेहिं ॥ (सादरवितीर्णयौवनहस्तावलम्बं समुन्नमद्भ्याम् ।
अभ्युत्थानमिव मन्मथस्य दत्तं तव स्तनाभ्याम् ॥इति च्छाया) स्वतःसम्भवी य औचित्येन बहिरपि सम्भाव्यमानसद्भावो न केवलं भणितिवशेनैवाभिनिष्पन्नशरीरः । यथोदाहृतम्-‘एवंवादिनि' इत्यादि । यथा वा
सिहिपिंछकण्णपूरा जाआ वाहस्स गव्विरी भमइ । मुक्ताफलरइअपसाहणाणं मज्झे सबत्तीणं ।। (शिखिपिच्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति । मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम् ।।इति च्छाया ॥२४॥) अर्थशक्तेरलङ्कारो यत्राप्यन्यः प्रतीयते ।
अनुस्वानोपमव्यङ्ग्यः स प्रकारोऽपरो ध्वनेः ॥२५॥ वाच्यालङ्कारव्यतिरिक्तो यत्रान्योऽलङ्कारोऽर्थसामर्थ्यात् प्रतीयमानोऽवभासते सोऽर्थशक्त्युद्भवो नामानुस्वानरूपव्यङ्ग्योऽन्यो ध्वनिः ॥२५॥
१. उदाहतमेव' ५॥ नि० दी० मा नथी. २. 'इत्यादौ' नि०। ३. यतिथे 'यथा वा' भने तेनी भात Gls२९। नथी भाप्यु.