________________
૧૨૬
अत्र वाच्यतयैव व्यतिरेकच्छायानुग्राही श्लेषः प्रतीयते ।
यथा च
एव ।
भ्रमिमरतिमलसहृदयतां प्रलयं मूर्च्छा तमः शरीरसादम् । मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥
यथा वा
यथा
अत्र रूपकच्छायानुग्राही श्लेषो वाच्यतयैवावभासते ।
२१. २ स चाक्षिप्तोऽलङ्कारो यत्र पुनः शब्दान्तरेणाभिहितस्वरूपस्तत्र न 'शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यध्वनिव्यवहारः । तत्र वक्रोक्त्यादिवाच्यालङ्कारव्यवहार
ધ્વન્યાલોક
चमहिअमाणसकञ्चणपङ्कअणिम्महिअपरिमला जस्स । अखँडिअदाणपसारा बाहुप्पलिहा व्विअ गइंदा || (खण्डितमानसकाञ्चनपङ्कजनिर्मथितपरिमला यस्य । अखण्डितदानप्रसरा बाहुपरिघा इव गजेन्द्राः ॥ इति च्छाया)
दृष्ट्या केशव गोपरागहृतया किञ्चिन्न दृष्टं मया तेनैव स्खलितास्मि नाथ पतितां किन्नाम नालम्बसे । एकत्वं विषमेषु खिन्नमनसां सर्वाबलानां गतिगोप्यैवं गदितः सलेशमवताद् गोष्ठे हरिर्वश्चिरम् ॥ एवञ्जातीयकः सर्व एव भवतु कामं वाच्यश्लेषस्य विषयः ।
यत्र तु सामर्थ्याक्षिप्तं सदलङ्कारान्तरं शब्दशक्त्या प्रकाशते स सर्व एव ध्वनेविषयः । यथा
""
“ अत्रान्तरे कुसुमसमययुगमुपसंहरन्नजृम्भत ग्रीष्माभिधानः फुल्लमल्लिकाधवलाट्टहासो महाकालः ।”
१. नि. ही मां 'न' नथी. 2. El. Hi (ta, fag) quik.