________________
१२४
येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्वोवृत्तभुजङ्गहारवलयो गां च योऽधारयत् । यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः पायात् स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ।। नन्वलङ्कारान्तरप्रतिभायामपि श्लेषव्यपदेशो भवतीति दर्शितं भट्टोद्भटेन । तत् पुनरपि शब्दशक्तिमूलो ध्वनिर्निरवकाशः ।
इत्याशङ्कयेदमुक्तम् “आक्षिप्तः” इति । तदयमर्थः, यत्र' शब्दशक्त्या साक्षादलङ्कारान्तरं’. वाच्यं सत् प्रतिभासते स सर्वः श्लेषविषयः । यत्र तु शब्दशक्त्या सामर्थ्याक्षिप्तं वाच्यव्यतिरिक्तं व्यङ्ग्यमेवालङ्कारान्तरं प्रकाशते स ध्वनेर्विषयः । शब्दशक्त्या साक्षादलङ्कारान्तरप्रतिभा यथा
तस्या विनापि हारेण निसर्गादेव हारिणौ । जनयामासतुः कस्य विस्मयं न पयोधरौ ॥
ધ્વન્યાલોક
अत्र शृङ्गारव्यभिचारी विस्मयाख्यो भावः साक्षाद् विरोधालङ्कारश्च प्रतिभासते, इति विरोधच्छायानुग्राहिणः श्लेषस्यायं विषयः । न त्वनुस्वानोपमव्यङ्ग्यस्य ध्वनेः । अलक्ष्यक्रमव्यङ्ग्यस्य तु ध्वनेर्वाच्येन श्लेषेण विरोधेन वा व्यञ्जितस्य विषय एव । यथा ममैव
श्लाघ्याशेषतनुं सुदर्शनकरः सर्वाङ्गलीलाजित - त्रैलोक्यां चरणारविन्दललितेनाक्रान्तलोको हरिः । बिभ्राणां मुखमिन्दुरूपमखिलं चन्द्रात्मचक्षुर्दधत् स्थाने यां स्वतनोरपश्यदधिकां सा रुक्मिणी वोऽवतात् ॥
१. 'अ' दी० ।
२. 'अलङ्कारं ' नि० ।
३. 'व्यजयप्रतिभासस्य' नि०, दी० ।
४. 'जीत' नि० ।