________________
ધ્વન્યાલોક ___ अत्र हि साम्यप्रपञ्चप्रतिपादनं विनैव व्यतिरेको दर्शितः ।
नात्र श्लेषमात्राच्चारुत्वनिष्पत्तिरस्तीति श्लेषस्य व्यतिरेकाङ्गत्वेनैव विवक्षितत्वात् न स्वतोऽलङ्कारतेत्यपि न वाच्यम् । यत एवंविधे विषये साम्यमात्रादपि सुप्रतिपादिताच्चारुत्वं दृश्यत एव । यथा
आक्रन्दाः स्तनितैर्विलोचनजलान्यश्रान्तधाराम्बुभि___स्तद्विच्छेदभुवश्च शोकशिखिनस्तुल्यास्तडिद्विभ्रमैः । अन्तर्मे दयितामुखं तव शशी वृत्तिः समैवावयो
स्तत् किं मामनिशं सखे जलधर त्वं दग्धुमेवोद्यतः ।। इत्यादौ । १८-१९.५ रसनिर्वहणैकतानहृदयो यञ्च नात्यन्तं निर्वोढुमिच्छति । यथा
कोपात् कोमललोलबाहुलतिकापाशेन बद्ध्वा दृढं नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः ।
भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं . ___ धन्यो हन्यत एव निहुतिपरः प्रेयान् रुदत्या हसन् ।। अत्र हि रूपकमाक्षिप्तमनिढूँढं परं रसपुष्टये ।। १८-१९.६ निर्वोढमिष्टमपि यं यत्नादङ्गत्वेन प्रत्यवेक्षते । यथा
श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं, गण्डच्छायां शशिनि शिखिनां बर्हभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्थं क्वचिदपि न ते भीरु सादृश्यमस्ति ॥ .
इत्यादौ ।
१. 'विवक्षितत्वम्' नि०, दी। • २. अलङ्कारत्वेन' नि०, दी। ३. मानो रसनिर्वहणैकतानहृदयश्च' २५॥ ५॥5 नि० मा इत्यादौ नी साये २।यो छे. ४. 'इत्यादौ रसनिर्वहणेकतानहृदयश्च। योऽयं च नात्यन्तं निर्वोढुमिच्छति यथा' 41 45 मि. छे. ५. नि०, दी. भ. परं रसपुष्टये' ने नवयम छे.