________________
વન્યાલોક अलङ्कारान्तरमेव श्लेषव्यतिरेकलक्षणं नरसिंहवदिति चेत् ?----
न । तस्य प्रकारान्तरेण व्यवस्थापनात् । यत्र हि श्लेषविषय एव शब्दे प्रकारान्तरेण व्यतिरेकप्रतीतिर्जायते, स तस्य विषयः । यथा
___“स हरिर्नाम्ना देवः सहरिर्वरतुरगनिवहेन" इत्यादौ ।
अत्र ह्यन्य एव शब्दः श्लेषस्य विषयोऽन्यश्च व्यतिरेकस्य । यदि चैवंविधे विषयेऽलङ्कारान्तरत्वकल्पना क्रियते तत्संसृष्टेविषयापहार एव स्यात् ।
श्लेषमुखेनैवात्र व्यतिरेकस्यात्मलाभ इति नायं संसृष्टेविषय इति चेत् ? न । व्यतिरेकस्य प्रकारान्तरेणापि दर्शनात् । यथा -
नो कल्पापायवायोरदयरयदलत्क्ष्माधरस्यापि शम्या ___ गाढोगीर्णोज्ज्वलश्रीरहनि न रहिता नो तमःकज्जलेन । प्राप्तोत्पत्तिः पतङ्गान्न पुनरुपगता मोषमुष्णत्विषो वो
वर्तिः सैवान्यरूपा सुखयतु निखिलद्वीपदीपस्य दीप्तिः ।।
१. 'शब्दश्लेपस्य' नि०। २. 'ततः संसृष्टे' दी। ३. दी० मा यथा' ५४ नथी..