________________
८८
વન્યાલોક
द्वितीय उद्योतः १.१ एवमविवक्षितवाच्यविवक्षितान्यपरवाच्यत्वेन' ध्वनिर्द्विप्रकारः प्रकाशितः । तत्राविवक्षितवाच्यस्य प्रभेदप्रतिपादनायेदमुच्यते
अर्थान्तरे सङ्क्रमितमत्यन्तं वा तिरस्कृतम् ।
अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विधा मतम् ॥१॥ तथाविधाभ्यां च ताभ्यां व्यङ्गयस्यैव विशेषः । १.२ तत्रार्थान्तरसङ्क्रमितवाच्यो यथा
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लबलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । काम सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे
वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ।। इत्यत्र रामशब्दः । अनेन हि व्यङ्ग्यधर्मान्तरपरिणतः संज्ञी प्रत्याय्यते, न संज्ञिमात्रम् । यथा च ममैव विषमबाणलीलायाम्
ताला जाअन्ति गुणा जाला दे सहिअएहिँ घेप्पन्ति । रइकिरणानुग्गहिआइँ होन्ति कमलाइँ कमलाइँ ।। (तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ।। इति च्छाया) इत्यत्र द्वितीयः कमलशब्दः ।। १.३ अत्यन्ततिरस्कृतवाच्यो यथादिकवेर्वाल्मीके:
रविसङ्क्रान्तसौभाग्यस्तुषारावृतमण्डलः ।
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥इति अत्रान्धशब्दः
गअणं च मत्तमेहं धारालुलिअज्जुणाइँ आ बणाई । णिरहंकारमिअंका हरंति नीलाओ वि णिसाओ ।। (गगनं च मत्तमेघं धारालुलितार्जुनानि च वनानि । निरहङ्कारमृगाङ्का हरन्ति नीला अपि निशाः ॥ इति च्छाया)
१. 'वाच्यत्वे' नि०। २. 'इति व्यङ्ग्यप्रकाशनपरस्य ध्वनेरेवायं प्रकार: नितथा दी० मा मछि .