________________
काव्यमाला ।
वयन्काव्यप्रकाशकारः कथमनुकूल इति त एव जानन्ति । नात्रौजसो वैपुल्येन प्रतिभानमस्ति । 'विनिविष्टैनूपुरैर्नर्त-' इत्यत्र सन्नप्योजसो लवो न चमत्कारी । नापि तत्र नृत्यत्प्रायत्वं वर्णानामनुभवन्ति सहृदयाः । अंशान्तरे तु माधुर्यमेव ।
संयोगपरहस्वप्राचुर्यरूपं गाढत्वमोजः॥ यथा'साहंकारसुरासुरावलिकराकृष्टभ्रमन्मन्दर
क्षुभ्यत्क्षीरधिवल्गुवीचिवलयश्रीगर्वसर्वंकषाः । तृष्णाताम्यदमन्दतापसकुलैः सानन्दमालोकिता
भूमीभूषण भूषयन्ति भुवनाभोगं भवत्कीर्तयः ॥' यथा वा 'अयं पततु निर्दयम्' इत्यादिप्रागुदाहृते ।
अविदग्धवैदिकादिप्रयोगयोग्यानां पदानां परिहारेण प्रयुज्यमानेषु पदेषु लोकोत्तरशोभारूपमौज्ज्वल्यं कान्तिः॥
यथा 'नितराम्' इत्यादि प्रागुदाहृते । बन्धगाढत्वशिथिलत्वयोः क्रमेणावस्थापनं समाधिः॥
अनयोरेव प्राचीनैरारोहव्यपदेशः कृतः । क्रम एव हि तयोः प्रसादादस्य भेदकः । तत्र हि तयोर्युत्क्रमेण वृत्तेः । यथा'स्वर्गनिर्गतनिरर्गलगङ्गातुङ्गभङ्गुरतरङ्गसखानाम् ।
केवलामृतमुचां वचनानां यस्य लास्यगृहमास्यसरोजम् ॥' अत्रारोहः प्रथमेऽर्थे । तृतीयचरणे त्ववरोहः । गङ्गेत्यादौ माधुर्यस्य व्यञ्जकेषु वर्णेषु सत्खपि दीर्घसमासान्तःपातितया न तस्य प्ररोहः । उत्तरार्धे तु सोऽपि । एते दश शब्दगुणाः ।
टीकाकाराणाम् । अनुकूलखाभावमेवाह-नहीति । अत्र खचरणेति पद्ये । वैपुल्येन सर्वांशेन । लवो लेशः । अत एव न चमत्कारित्वम् । तत्रौजसो लवांशे । साहमिति । हे भूमीभूषण । आभोगो विस्तारः। अनयोर्गाढवशिथिलखयोः। प्रसादात्समाधेर्भेदमाहक्रम एवेति । तयोर्गाढवशिथिलवयोः क्रम एव हीत्यर्थः । वृत्तेः प्रवृत्तेः । स्वर्गेति । यस्यास्यसरोजं तेषां लास्यगृहं भवतीत्यर्थः । तृतीयचरण इति बहुव्रीहिः। द्वितीयेऽर्धे