________________
रसगङ्गाधरः ।
५५
मधुतरादिगुणानां द्रुततरत्वादिकार्यतारतम्यप्रयोजकतयाभ्युपगमेन माधुर्यवत्त्वेन कारण या गड्डुभूतत्वात् । इत्थं च प्रातिखिकरूपेणैव कारणत्वे लाघवम् । किं चात्मनो निर्गुणतयात्मरूपरसगुणत्वं माधुर्यादीनामनुपपन्नम् । एवं तदुपाधिरत्यादिगुणत्वमपि । मानाभावात्, पररीत्या गुणे गुणान्तरस्यानौचित्याच्च । अथ शृङ्गारो मधुर इत्यादिव्यवहारः कथमिति चेत्, एवं तर्हि द्रुत्यादिचित्तवृत्तिप्रयोजकत्वम्, प्रयोजकतासंबन्धेन द्रुत्यादिकमेव वा माधुर्यादिकमस्तु । व्यवहारस्तु वाजिगन्धोष्णेतिव्यवहारवदक्षतः । प्रयोजकत्वं चादृष्टादिविलक्षणं शब्दार्थरसरचनागतमेव ग्राह्यम् । अतो न व्यवहारातिप्रसक्तिः । तथा च शब्दार्थयोरपि माधुर्यादेरीदृशस्य -सत्त्वादुपचारो नैव कल्प्य इति तु मादृशाः ।
जरत्तरास्तु–
'श्लेषः प्रसादः समता माधुर्य सुकुमारता । अर्थव्यक्तिरुदारत्वमोजः कान्तिसमाधयः ॥ '
इति दश शब्दगुणान्, दशैव चार्थगुणानामनन्ति । नामानि पुनस्तान्येव, लक्षणं तु भिन्नम् ।
एवं च विशिष्य प्रयोज्यप्रयोजकभावेनैव निर्वाहे सामान्यकार्यकारणभावस्तुरीयो निष्फलत्वाद्गडुस्थानापन्न इति तदङ्गीकारे विपरीतं गौरवमिति भावः । तदाह - इत्थं चेति । तुरीयकार्यकारणभावाङ्गीकारे चेत्यर्थः । नन्वेवं तथैवास्तां तावतापि गुणसिद्धिरत आह- किं चेति । एवं रसवत् । गुणत्वमप्यनुपपन्नमित्यस्यानुषङ्गः । अथेति । तेषां तदुभयगुणत्वाभावे इति भावः । लाघवादाह - प्रयोजकेति । ननु प्रयोजकत्वस्यादृष्टादिसाधारण्यात्तत्रापि माधुर्यादिव्यवहारापत्तिरत आह-प्रयोजकत्वं चेति । आदिना कालादिपरिग्रहः । शब्दार्थेति चतुर्णां द्वन्द्वः । अतो न व्यवेति । इदमपरमत्र बोध्यम् । आह्लादकलरूपमाधुर्यस्याह्लादकरूपे रसे स्थितिः कथं वक्तुं युक्ता । शब्दवृत्तितानये गुणालंकारयोर्भेदस्त्वेवम् — काव्यशोभाकारिणो गुणाः, तदतिशयहेतवोऽलंकारा इति । अत एव वामनः - 'युवतेरिव सर्वमङ्गकाव्यं खदते शुद्धगुणं तदप्यतीव । विहितप्रणयं निरन्तराभिः सदलंकार विकल्पकल्पनाभिः ॥' इति । तथा सति फलितमाह - तथा चेति । जरत्तरास्त्वित्य स्याहुरित्यमेतनेनाप्यन्वयः । लक्षणं त्विति । प्रत्येकाभिप्राय•