________________
रसगङ्गाधरः।
- गृह्णन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामध्रुवां
यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरुहाः ॥' अत्र समासोक्त्यवयवाभ्यां तरुकामिकर्तृकरिपुकामिनीकबर्यादिग्रहणरूपाभ्यां प्रकृताप्रकृतव्यवहाराभ्यां व्यक्तयोः करुणशृङ्गारयो राजविषयकरतिभावाङ्गत्वम् । किं च प्रकृतरसपरिपुष्टिमिच्छता विरोधिनोऽपि रसस्य बाध्यत्वेन निबन्धनं कार्यमेव । तथा हि सति वैरिविजयकृता वर्ण्यस्य कापि शोभा संपद्यते । बाध्यत्वं च रसस्य प्रबलैर्विरोधिनो रसस्याङ्गैर्विद्यमानेष्वपि खाङ्गेषु निष्पत्तेः प्रतिबन्धः । व्यभिचारिणो बाध्यत्वं तु तदीयरसनिष्पत्तिप्रतिबन्धमात्रात् । न त्वनभिव्यक्त्या । अभिव्यक्तौ बाधकाभावात् । न च विरोध्यङ्गाभिव्यक्त्या प्रतिबन्धान्नाभिव्यक्तिरिति वाच्यम् । तद्व्यञ्जकशब्दार्थज्ञानसमये विरोध्यङ्गाभिव्यञ्जकशब्दार्थज्ञानसासंनिधानात् । प्रतिबध्यप्रतिबन्धकमावकल्पने मानाभावात् । भावशबलताया उच्छेदापत्तेश्च । रसनिष्पत्तेः प्रतिबन्धस्त्वनुभवसिद्ध इति तां प्रत्येव विरोध्यङ्गानां बलवतामभिव्यक्तेः प्रतिबन्धकत्वं न्याय्यम् । अपि च यत्र साधारणविशेषणमहिना विरुद्धयोरभिव्यक्तिस्तत्रापि विरोधो निवर्तते। यथा
'नितान्तं वनोन्मत्ता गाढरक्ताः सदाहवे । वसुंधरां समा गय शेरते वीर तेऽरयः ॥'
लिता वक्रीकृतः । न्यकृता अधःकृताः। ग्रहणे हेतुगर्भ विशेषणं कण्टकचिता इति । कण्टकव्याप्ता इत्यर्थः । तरुकामीति । एतदुभयकर्तृकेत्यर्थः । रतिभावेति । कविनिष्ठेत्यादिः । एकत्र काव्ये । पुनः प्रकारान्तरेण विरुद्धवाभिमतयोर्निबन्धे न दोष इत्याहकिं चेति । इच्छतेति । कविनेति शेषः । काप्यनिर्वचनीया । रसस्येत्यस्य पूर्वत्रेव निष्पत्तेरित्यत्राप्यन्वयः। तदीयेति । व्यभिचारभावीयेत्यर्थः । अनभीत्यस्य व्यभिचारिभावस्येत्यादिः । एवमग्रेऽपि । विरोध्यतेति। विरोधिनो रसस्याङ्ग्रेत्यर्थः । तयञ्जकेति । व्यभिचारिभावव्यञ्जकेत्यर्थः । असंनिधानान्नष्टत्वात् । ननु संस्कारस्यैव तत्त्वमास्तामत आह-भावेति । नन्वेवं रसनिष्पत्तिप्रतिबन्धोऽपि न स्यादत आहरसेति । पुनरन्यथा तं परिहरति-अपि चेति । अत्र रकं रुधिरम् , अनुरागश्च, इति
५रस०