________________
१८
काव्यमाला । वीरस्य चर्वणे शृङ्गारचर्वणेति विवेकः । इत्थं चोदासीनचर्वणेन प्रतिबन्धकज्ञाननिवृत्तौ निष्प्रत्यूहः प्रतिबध्यचर्वणोदय इति फलितोऽर्थः । अङ्गाजिनोरङ्गिन्यन्यस्मिन्नङ्गयोर्वा न विरोधः । अङ्गत्वानुपपत्तिप्रसङ्गात् । यथा'प्रत्युद्गता सविनयं सहसा सखीभिः
मेरैः स्मरस्य सचिवैः सरसावलोकैः । मामद्य मञ्जरचनैर्वचनैश्च बाले .
हा लेशतोऽपि न कथं वद सत्करोषि ॥' इयं च पुरो निपतितां प्रमीतां नायिकां प्रति नायकस्योंक्तिः । इह नायिकालम्बना, अश्रुपातादिभिरनुभावैरावेगविषादिभिः संचारिभिश्च व्यज्यमाना नायकगता रतिस्तुल्यसामग्र्यभिव्यक्ते प्रकृतत्वात्प्रधानीभूते तद्गत एव शोके प्रकर्षकत्वादङ्गम् । यदि तु नायकगता रतिनात्र प्रतीयते, किं तु निरुक्तसामग्र्या शोक एव प्रकृतत्वादित्यागृह्यते तदा नायकालम्बना प्रत्युद्गमाद्यनुभाविता हर्षादिभिः पोषिता नायिकाश्रया रतिरेव तत्राङ्गमस्तु । नायिकागतरते यकशोकप्रकर्षहेतुतायाः सर्वसंमतत्वात् । न च नायिकाया नाशात्तद्गताया रतेरसंनिधानात्कथमङ्गतेति वाच्यम् । संनिधानस्याङ्गतायामतन्त्रत्वेन मर्यमाणायास्तस्या अङ्गत्वोपपत्तेः ।
अङ्गयोर्यथा. 'उत्क्षिप्ताः कबरीभरं विवलिताः पार्श्वद्वयं न्यकृताः
पादाम्भोजयुगं रुषा परिहृता दूरेण चेलाञ्चलम् ।
सतीति शेषः । विवेको मेदः । द्वितीयविषयमुपसंहरति-इत्थं चेति । उक्तप्रकारेण चेत्यर्थः । उदेति मध्ये इत्यादिः । निवृत्ती । ज्ञानस्य त्रिक्षणावस्थायित्वादिति भावः । प्रकारान्तरेण विरोधं परिहरति-अङ्गाङ्गिनोरिति । पुनरन्यथा तं परिहरति-अगिनीति । अङ्गत्वेति । एकाङ्गिनिरूपितेत्यादिः । तत्राद्योदाहरणमाह-प्रत्युद्गतेति। प्रमीतां मृताम् । तुल्यसामग्रीति । उक्तसामग्रीसजातीयेत्यर्थः । तद्गते एव नायकगते एव । नाति । नैवात्रेत्यर्थः । निरुक्तेति । नायिकालम्बनेत्यादिनेति भावः । आयह्यते आग्रहः क्रियते । तत्र शोके । नायकशोकेति । नायकनिष्ठशोकेत्यर्थः । अतन्त्रत्वेनाकारणत्वेन । अङ्गयोरित्यस्यैकस्मिन्नङ्गिनीत्यादिः । उत्क्षिप्ता उन्नतीकृताः । विव