________________
४४
काव्यमाला
स्मितं च हसितं प्रोक्तमुत्तमे पुरुषे बुधैः । • भवेद्विहसितं चोपहसितं मध्यमे नरे ॥ नीचेऽपहसितं चातिहसितं परिकीर्तितम् । फुल्लकपोलाभ्यां कटाक्षैरप्यनुल्बणैः ॥ अदृश्य दशनो हासो मधुरः स्मितमुच्यते । वक्त्रनेत्रकपोलैश्चेदुत्फुल्लैरुपलक्षितः ॥ किंचिल्लक्षितदन्तश्च तदा हसितमिष्यते । सशब्दं मधुरं कालगतं वदनरागवत् ॥ आकुञ्चिताक्षि मन्द्रं च विदुर्विहसितं बुधाः । निकुञ्चितां शीर्षश्च जिह्मदृष्टिविलोकन: ॥ उत्फुल्लनासिको हासो नाम्नोपहसितं मतम् । अस्थानजः साश्रुदृष्टिराकम्पः स्कन्धमूर्धजः ॥ शार्ङ्गदेवेन गदितो हासोऽपहसिताह्वयः । स्थूलकर्णकटुध्वानो बाष्पपूरष्टुतेक्षणः ॥ करोपगूढपार्श्वश्च हासोऽतिहसितं मतम् ॥' इति । भयानको यथा
-
' श्येनमम्बरतलादुपागतं शुष्यदाननबिलो विलोकयन् ।
कम्पमानतनुराकुलेक्षणः स्पन्दितुं नहि शशाक लावकः ॥'
अत्र श्येन आलम्बनम् । सवेगापत मुद्दीपनम् । आननशोषादयोऽनुभावाः । दैन्यादयः संचारिणः ।
बीभत्स यथा:
'नखैर्विदारितान्त्राणां शवानां पूयशोणितम् । आननेष्वनुलिम्पन्ति हृष्टा वेतालयोषितः ॥'
दिति । अनुल्बणैरवृद्धैः । दशना दन्ताः । ‘कालगतम्' इत्यपाठः । 'कायगतम्' इति पाठः । वदनेति । तल्लौहित्यविशिष्टिम् । जिह्मेति । व्यधिकरणपदबहुव्रीहिः । आकम्पौ कम्पमानौ स्कन्धमूर्धजौ यस्मिन् । स्थूलः कर्णकटुर्ध्वानः शब्दो यत्र । कराभ्यामुपगूढे व्याप्ते पार्श्वे यत्र । शुष्यदाननमेव बिलं यस्य । लावकः पक्षिविशेषः । सवेगेति । वेगसहितमापतनमित्यर्थः । पूयेति समाहारद्वन्द्वः । आननेत्यस्य खेत्यादिः । तत्र तयोः । ननु