________________
रसगङ्गाधरः।
इत्यत्र सामान्यमुदाहृत्य काव्यप्रकाशे निमित्तान्तरजनितापि नानात्वप्रतीतिः प्रथमप्रतिपन्नमभेदं न व्युदसितुमुत्सहते । प्रतीतस्य त्यागायोगात्' इत्युक्तम् । अत्रोत्तरप्रतिपत्त्या तिरस्कृतत्वात्पूर्वप्रतीतेन चमत्कारित्वम् , किं तूत्तरप्रतीतेरेवेति तयैव व्यपदेशो न्याय्यः । अन्यथा व्यतिरेकेऽप्युपमापत्तेः । विरोधाभासस्तु पूर्वोत्तरप्रतीतिद्वयात्मक इति भवति चमत्कारी।
इति रसगङ्गाधरे सामान्यालंकारप्रकरणम् ।
अथोत्तरालंकारःप्रश्नप्रतिवन्धकज्ञानविषयीभूतोऽर्थ उत्तरम् ॥
प्रश्नश्च ज्ञीप्सा । भावे नको विधानात् । सा ज्ञानविषयेच्छा । सा चोत्तरवाक्याविषयीभूते ज्ञाने जाते निवर्तते । ननु जिज्ञासा ज्ञानेष्टसाधनताज्ञानसाध्या । जाते हि ज्ञानेष्टसाधनताज्ञाने तद्रूपस्यैव विषयीभूतज्ञानस्य सिद्धत्वात्कथमुत्पत्तुमर्हतीति । मैवम् । 'किमेकं दैवतं लोके' इत्यादिप्रश्नवाक्यादेकदैवतत्वव्याप्तधर्मप्रकारकं ज्ञानमिष्टसाधनमिति ज्ञानजन्या प्रयोक्तृगता तादृशं ज्ञानं मे जायतामितीच्छानुमीयते । सा च प्रष्टुः कुतश्चिदैवतत्वप्रकारकोपस्थितावेकसंबन्धिज्ञानाधीनायां दैवतत्वव्याप्यधर्मत्वेन रूपेण तादृशधर्मोपस्थितौ च सत्यां तस्यां गृहीतेन दैवतत्वव्याप्यधर्मप्रकारकज्ञानत्वेन सामान्येन भाविन्युत्तरवाक्यजन्यज्ञाने इष्टसाधनताज्ञानादुत्पद्यते । तस्याश्च तादृशप्रकारकज्ञानत्वेन सामान्यरूपेण विष्णुर्दैवतमित्यादीनि ज्ञानान्येव दैवतत्वव्याप्यधर्माशे निरवच्छिन्नप्रकारताभाजि विषय इति तैरेवोत्तरवाक्यादुत्पन्नैः सा प्रतिवध्यते । जनकीभूतज्ञानं विषय एव तस्या न भवतीति न तत्सिद्धिः प्रतिबन्धिकेति न दोषः । तच्चोत्तरं द्विविधम्उन्नीतप्रश्नम् , निबद्धप्रश्नं च । क्रमेणोदाहरणानि'त्वमिव पथिकः प्रियो मे विटपिस्तोमेषु गमयति क्लेशान् । किमितोऽन्यत्कुशलं मे संप्रति यत्पान्थ जीवामि ॥'
प्राग्वदाह-अथेति । तादृशेति । तद्याप्येत्यर्थः । इतीति । व्यङ्ग्यमित्यस्या