________________
५१८
काव्यमाला।
भावात्पारिभाषिक्यप्यत्र नानुमितिः। अतस्तत्करणमनुमानं कथं नाम स्यात्' इति परास्तम् । यदप्युक्तम्- "तद्गुणरीत्यापि भेदानध्यवसायप्राप्तावुन्मीलितं दृश्यते । यथा'नृत्यद्भर्गाट्टहासप्रसरसहचरैस्तावकीनैर्यशोभि
विल्यं नीयमाने त्रिजगति परितः श्रीनृसिंह क्षितीन्द्र । नेदृग्योष नाभीकमलपरिमलः प्रौढिमासादयिष्य
द्देवानां नाभविष्यत्कथमपि कमलाकामुकस्य प्रबोधः ॥' इति । तदपि न । तद्गुणे हि गुणयोर्भेदानध्यवसायः, न तु वस्तुनोरिति निर्विवादम् । अत्र नाभीकमलपरिमलेन भगवत्त्वेन भगवज्ज्ञाने जातेऽपि तदीयगुणे नीलिमनि यशोगुणधावल्यभेदानध्यवसायरूपस्य तद्गुणस्य निर्वाधत्वात्कथंकारं तत्प्रतिद्वन्द्विता . उन्मीलितस्योच्यते । यदि चैकस्मिन्वस्तुनि संनिहितवस्त्वन्तरगुणवद्भेदानध्यवसायस्तद्गुणजीवितमित्युच्यते तथाप्यत्र तद्गुणो निर्बाधः । भगवतः श्वेतभिन्नत्वेन ज्ञानस्योपायशून्यत्वेनायोगात् । न च नीलत्वव्याप्यभगवत्त्वज्ञानमेवोपायः । प्राङ्नीलोऽपि कारणविशेषमहिना संप्रति श्वेतो जात इति बुद्धेः प्रत्यक्षानुगृहीतायास्तथाप्यनपायात् । अत एव त्वदुपजीव्येनालंकारसर्वखकृता उन्मीलनविशेषकयोश्चर्चेव न कृता । अत एव प्राचीनैः कृतविभागेष्वलंकारेष्विदंप्रथमोसेक्षितस्य यावदलंकारस्य शक्योऽन्तर्भावः कर्तुम् । न तावत्पृथगलंकारत्ववाचोयुक्त्या विगलितशृङ्खलत्वमात्मनो नाटयितुं सांप्रतं मर्यादावशंवदैरारिति ।
यत्तु_ 'वेत्रत्वचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि ।
भृङ्गाः सहेलं यदि नापतिष्यन्कोऽवेदयिष्यन्नवचम्पकानि ॥'
पक्षधर्मताज्ञानजन्यवाभावाच । वशंवदैगर्यैरिति । नह्यत्र तद्गुणरीयेत्यनेन तद्गुणो नास्तीत्युच्यते । किं तु तद्रीत्या देवान्तरेभ्यो विष्णोर्भेदानध्यवसायप्राप्ती केनापि निमितेनाभेदाध्यवसाय इत्येतावन्मात्रमिति न कश्चिद्दोषः ॥ इति रसगङ्गाधरमर्मप्रकाशे सामान्यालंकारप्रकरणम् ॥