________________
रसगङ्गाधरः ।
५१५
रणभावो नात्र विवक्षितः । किं तु संनिधानेऽपि तद्गुणग्रहणाभाव इत्येतावन्मात्रम् । अतो विशेषोक्तेरतद्गुणो भिन्न इति तु न युक्तम् । संनिधानेsपीत्यपिना विरोधोऽपि विवक्षित इति गम्यते । अन्यथा जीवातोरभावादलंकारतैव न स्यात् । स च कार्यकारणभावाविवक्षणेन भवतीति कथमुच्यते न विवक्षित इति' इत्यप्याहुः । इति रसगङ्गाधरेऽतद्गुणप्रकरणम् ।
•
अथ मीलितम्
स्फुटमुपलभ्यमानस्य कस्यचिद्वस्तुनो लिङ्गैरति साम्याद्भिन्नत्वे - नागृह्यमाणानां वस्त्वन्तरलिङ्गानां स्वकारणाननुमापकत्वं मीलितम् ॥
संग्रहश्व
'भेदाग्रहेण लिङ्गानां लिङ्गैः प्रत्यक्षवस्तुनः । अप्रकाशो ह्यनध्यक्षवस्तुनस्तन्निमीलितम् ॥'
सामान्यवारणाय अनध्यक्षेति । तत्राध्यक्षस्यैव वस्त्वन्तरस्याग्रहणम् । तद्गुणेवस्त्वन्तरगुणानां भिन्नत्वेनाग्रहणेऽपि वस्त्वन्तरस्य ग्रहणमस्त्येवेति न तत्र प्रसङ्गः । उदाहरणम्
'जलकुम्भमुम्भितरसं सपदि सरस्याः समानयन्त्यास्ते । तटकुञ्जगूढसुरतं भगवानेको मनोभवो वेद |'
अत्र सुरतगमकानां खेदकम्पनिःश्वासानां जलकुम्भानयनत्वराजनितैस्तैर्भेदस्याग्रहात्सुरतस्याप्रकाशः । यथा वा
'सरसिरुहोदरसुरभावधरितबिम्बाधरे मृगाक्षि तव । वद वदने मणिरदने ताम्बूलं केन लक्षयेम वयम् ॥' अत्र प्रियेण ताम्बूलं कुतो न गृह्णासीत्युक्ते एतावन्तं समयं ताम्बूलानि भुक्त्वैव समागतास्मीत्युक्तवतीं प्रति तस्येयमुक्तिः । पूर्वोदाहरणे प्रत्यक्षवस्तुलिङ्गान्यागन्तुकानि, अत्र तु साहजिकानीति विशेषः ।
इति रसगङ्गाधरे मीलितालंकारप्रकरणम् ।
प्राग्वदाह - अथेति । लिङ्गानामन्यदीयलिङ्गानाम् । इति रसगङ्गाधरमर्मप्रकाशे मीलितप्रकरणम् ॥