________________
३६
काव्यमाला ।
क्रमभङ्गमावहति, तथापि वक्तुर्ब्रह्मात्मकतयोत्तमाधमज्ञानवैकल्यं संपन्नमिति
द्योतनाय क्रमभङ्गो गुण एव । इदं पुनर्नोदाहार्यम्—
'सुरस्रोतखिन्याः पुलिनमधितिष्ठन्नयनयोविधायान्तर्मुद्रामथ सपदि विद्राव्य विषयान् । विधूतान्तर्ध्वान्तो मधुरमधुरायां चिति कदा
निमग्नः स्यां कस्यांचन नवनभस्याम्बुदरुचि ॥' अत्रापि यद्यपि विषयगणनालम्बनः सुरस्रोतखिनीतटाद्युद्दीपितो नयननिमीलनादिभिरनुभावितः स्थायी निर्वेदः प्रतीयते, तथापि भगवद्वासुदेवालम्बनायां कविरतौ गुणीभूत इति न शान्तरसध्वनिव्यपदेशहेतुः । इदं च पद्यं मन्निर्मितायां भगवद्भक्ति प्रधानायां करुणालहर्यामुपनिबद्धमिति तत्प्रधानभावप्राधान्यमेवार्हति । शान्तरसाननुगुणश्चायमोजखी गुम्फ इति चानुदाहार्यमेवैतत् । पूर्वपद्ये तु 'परमात्मनि स्थितिः' इत्यनेन तत्ताद्रूप्यावगमाद्रतेरप्रतिपत्तिः । रौद्रो यथा
'नवोच्छलितयौवनस्फुरदखर्वगर्वज्वरे मदीयगुरुकार्मुकं गलितसाध्वसं वृश्चति । अयं ततु निर्दयं दलितदृप्त भूभृद्गल - स्खलदुधिरमरो मम परश्वधो भैरवः ॥' अत्र तदानीं रामत्वेनाज्ञातो गुरुकार्मुकभञ्जक आलम्बनम् । अत एव विशेष्यानुपादानम् । गुरुगुहो नामग्रहणानौचित्यात् । क्रोधाविष्काराद्वा । ध्वनिविशेषानुमितो निःशङ्कधनुर्भङ्ग उद्दीपकः । परुषोक्तिरनुभावः । गर्वोग्रत्वादयः संचारिणः । एषा च धनुर्भङ्गध्वनिभग्नसमाधेर्भार्गवस्योक्तिः ।
इति । अनित्यत्वेन ज्ञात इत्यर्थः । क्रमभङ्गमिति । तथा चाक्रमत्वदोषाद्दुष्टं काव्यमिति भावः । गुण एवेति । तथा चादुष्टमिति भावः । पुलिनमिति । 'अधिशीङ्-' इति कर्म । सपदि तत्कालम् । गुम्फो रचनाविशेषः । इति च इत्यतोऽपि । नन्वेवमुदाहृत'पद्येऽप्येवं स्यादत आह- पूर्वेति । तदानीं क्रोधसमये । गुरुः शिवः । अत एवेत्यस्या