________________
४८०
काव्यमाला । 'प्रथमं श्रितकञ्जकोरकाभावथ शोभामनुभूय कन्दुकानाम् ।
अधुना श्रयितुं कुचौ यतेते दयिते ते करिशावकुम्भलीलाम् ॥' . अत्रापि कुचत्वेनैकीकृते कुचरूपेऽधिकरणे परिमाणविशेषाणाम् ।' यदि च कुचयोः पूर्वपूर्वखरूपापेक्षया उत्तरोत्तरखरूपस्योत्कर्षः प्रतीयते तदा एकविषयः सारोऽप्यस्तु, विषयभेदाच न बाध्यबाधकभावः । यत्तु
'बिम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृश्यत ।
अधुना मृगशावाक्षि हृदयेऽप्येष दृश्यते ॥' इति कुवलयानन्दकृता विकासपर्यायो निजगदे, तच्चिन्त्यम् । एकसंबन्धनाशोत्तरमपरसंबन्धे सत्येव पर्यायपदस्य लोके प्रयोगात् । 'श्रोणीबन्धस्त्यजति तनुतां सेवते सध्यभागः' इति काव्यप्रकाशोदाहृते, 'प्रागणवस्य हृदये-' इत्यादिसर्वखकारोदाहृते च तथैव दृष्टत्वाच्च अस्मिन्नलंकारलक्षणेऽपि क्रमपदेन तादृशविवक्षाया औचित्यात् । तस्मादत्रैकविषयः सारालंकार उचितः । यं रत्नाकरादयो वर्धमानकालंकारमामनन्ति स चायुप्मता नोट्टङ्कित एव । इदं तु बोध्यम्_ 'प्रथमं चुम्बितचरणा जङ्घाजानूरुनाभिहृदयानि ।
आश्लिष्य भावना मे खेलतु विष्णोर्मुखाजशोभायाम् ॥', अत्र न तावत्पर्यायः उत्तरोत्तरसंबन्धस्य पूर्वपूर्वत्यागपूर्वकत्वाविवक्षणात् । यतोऽत्र मुखविषयकभावनायाः सर्वाङ्गविषयकत्वं वक्तुरभिप्रेतम् , न तु मुखमात्रविषयकत्वम् । अत एव खेलत्वित्युक्तम् , न तु मज्जत्विति । तथा
'पूर्व नयनयोलमा ततो मना मनस्यभूत् । अथ सैव प्रियस्यासीत्सर्ववेदनगोचरा ॥'
प्राग्वदाह-अथेति । वस्तुतो द्विखादाह-कुचत्वेनेति । विशेषणानामुक्तरीत्या क्रमिकल मिति शेषः । सारालंकार उचित इति । अत्रेदं चिन्यम्-भेदप्रतीतौ सत्यामेव सार इत्यस्य प्राचीनसंमतत्वेन तदभावात् । अत्र हि रागयोः श्लेषेणाभेदाध्यवसायात् । वर्धमानकरूपालंकारान्तरखीकारापेक्षया पर्यायपदार्थस्य साधारण्यमाश्रित्यानेन संग्रहस्यैवोचितवाच्च । अत एव प्रकाशकृतापीदं पद्यं पर्याय उदाहृतम् । इत्य