________________
१६०
.
काव्यमाला।
अत्र दुर्जनसज्जनयोर्मदशमकर्तृत्वेऽपि न तदुद्देशेन प्रवृत्तिरिति लक्षणगतकर्तृविशेषणेनासंग्रहः । न चास्य व्याघातोदाहरणत्वे को दोष इति वाच्यम् । आश्रयविशेषखभावसाचिव्येनैकस्यैव कारणस्य विरुद्धकार्यद्वयजनने बाधकविरहाव्याहतेरेवाभावादुदाहरणत्वासंगतेः । नहि लोकसिद्धोऽर्थः काव्यालंकारास्पदं भवितुमर्हति । अपरो व्याघातो यथा
'विमुञ्चसि यदि प्रिय प्रियतमेति मां मन्दिरे __ तदा सह नयख मां प्रणययन्त्रणायन्त्रितः। अथ प्रकृतिभीरुरित्यखिलभीतिभङ्गक्षमा
न्न जातु भुजमण्डलादवहितो बहिर्भावय ॥' इदं दण्डकां प्रविविधैं भगवन्तं दाशरथिं प्रति भगवत्या जानक्या वाक्यम् । उभयविधेऽप्यस्मिन्व्याघाते पूर्वकर्तुरभीष्टव्याहननं तुल्यमिति प्राचां सिद्धान्तः । तथा च तेषामुदाहरणम्
'दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥' इति । अत्र विचार्यते-व्यतिरेक एवात्रालंकारः । जयिनीविरूपाक्षस्य वामलोचना इति तस्यैव प्रकाशनात् । न चात्र व्यतिरेकोत्थापकतया व्याघातः स्थित इति वाच्यम् । एवमपि तस्यालंकारताया असिद्धेः । न ह्यलंकारोस्थापकेनालंकारेणैव भवितव्यमित्यस्ति नियमः । 'आननेनाकलङ्केन जयतीन्दु कलङ्किनम्' इत्यादाविव वस्तुमात्रेणापि व्यतिरेकोत्थापनोपपत्तेः । नह्यस्योक्तप्रकारव्यतिरेकनिर्मुक्तो विषयोऽस्ति येन खातन्त्र्यमभ्युपगच्छेम । तस्मादलंकारान्तराविनाभूतालंकारान्तरवदिहाप्यवान्तरोऽस्ति विच्छित्तिविशेषोऽलंकारभेदक इति प्राचामुक्तिरेवात्र शरणम् । यत्तु. 'लुब्धो न विसृजत्यर्थ नरो दारिद्यशङ्कया ।
दातापि विसृजत्यर्थ तयैव ननु शङ्कया ॥' इति कुवलयानन्द उदाहृतम् , तन्न । लिकजन्मान्तरीयदारियशङ्कयोरमेदाध्यवसानान्न लक्षणासमन्वय इत्याहुः ॥ इति रसग