________________
रसगङ्गाधरः 1
३१
वासनारूपाणाममीषां मुहुर्मुहुरभिव्यक्तेरेव स्थिरपदार्थत्वात् । व्यभिचारिणां तु नैव, तदभिव्यक्तेर्विद्युदयोतप्रायत्वात् ।
यदाहु:
'विरुद्धैरविरुद्धैर्वा भावैर्विच्छिद्यते न यः । आत्मभावं नयत्याशु स स्थायी लवणाकरः ॥ चिरं चित्तेऽवतिष्ठन्ते संबध्यन्तेऽनुबन्धिभिः । रसत्वं ये प्रपद्यन्ते प्रसिद्धाः स्थायिनोऽत्र ते ||' चिरमिति व्यभिचारिवारणाय । अनुबन्धिभिर्विभावाद्यैः ।
तथा
'सजातीयविजातीयैरतिरस्कृतमूर्तिमान् ।
यावद्रसं वर्तमानः स्थायिभाव उदाहृतः ॥' इति ।
केचित्तु रत्याद्यन्यतमत्वं स्थायित्वमाहुः । तन्न । रत्यादीनामेकस्मिन्प्ररूढेऽन्यस्याप्ररूढस्य व्यभिचारित्वोपगमात् । प्ररूढत्वाप्ररूढत्वे बह्वल्पविभावजत्वे ।
तदुक्तं रत्नाकरे
‘रत्यादयः स्थायिभावाः स्युर्भूयिष्ठविभावजाः । स्तोकैर्विभावैरुत्पन्नास्त एव व्यभिचारिणः ॥' इति ।
एवं च वीररसे प्रधाने क्रोधो रौद्रे चोत्साहः शृङ्गारे हासो व्यभिचारी भवति, नान्तरीयकश्च । यदा तु प्रधानपरिपोषार्थं सोऽपि बहुविभावजः क्रियते तदा तु रसालंकार इत्यादि बोध्यम् ।
तत्र
स्त्रीपुंसयोरन्योन्यालम्बनः प्रेमाख्यश्चित्तवृत्तिविशेषो रतिः स्थायि
भावः ॥
विभावादीनितिशेषः। लवणेति । लवणाकर इवेत्यर्थः । बह्वल्पविभावजत्वे इति । बहु विपुलम् । विभावशब्दो वा साहचर्याद्विभावानुभावव्यभिचारिपरः । अत एव रत्नाकरें बहुवचनम् । एवं च एकस्य प्ररूढत्वेऽन्यस्य तत्त्वाङ्गीकारे च । नान्तरीयेति । क्रोधादि विना तदसंभवादिति भावः । सोऽपि क्रोधादिरपि । रसालंकार इति । रसव