________________
३०
काव्यमाला ।
नाट्ये गीतवाद्यादीनां विरोधिनां सत्त्वात्सामाजिकेष्वपि विषयवैमुख्यात्मनः शान्तस्य कथमुद्रेक इति चेत् , नाट्ये शान्तरसमभ्युपगच्छद्भिः फलबलात्तद्गीतवाद्यादेस्तस्मिन्विरोधिताया अकल्पनात् । विषयचिन्तासामान्यस्य तत्र विरोधित्वस्वीकारे तदीयालम्बनस्य संसारानित्यत्वस्य तदुद्दीपनस्य पुराणश्रवणसत्सङ्गपुण्यवनतीर्थावलोकनादेरपि विषयत्वेन विरोधित्वापत्तेः । अत एव च चरमाध्याये संगीतरत्नाकरे
'अष्टावेव रसा नाट्येष्विति केचिदचूचुदन् ।
तदचारु यतः कंचिन्न रसं खदते नटः ।। इत्यादिना नाट्येऽपि शान्तो रसोऽस्तीति व्यवस्थापितम् । यैरपि नाट्ये शान्तो रसो नास्तीत्यभ्युपगम्यते तैरपि बाधकामावान्महाभारतादिप्रबन्धानां शान्तरसप्रधानताया अखिललोकानुभवसिद्धत्वाच्च काव्ये सोऽवश्यं खीकार्यः । अत एव 'अष्टौ नाट्ये रसाः स्मृताः' इत्युपक्रम्य 'शान्तोऽपि नवमो रसः' इति मम्मटभट्टा अप्युपसमहार्षुः । अमीषां च
'रतिः शोकश्च निर्वेदक्रोधोत्साहाश्च विस्मयः । __ हासो भयं जुगुप्सा च स्थायिभावाः क्रमादमी ॥' रसेभ्यः स्थायिभावानां घटादेर्घटाद्यवच्छिन्नाकाशादिव प्रथमद्वितीययोर्मतयोः, सत्यरजतस्यानिर्वचनीयरजतादिव तृतीये, विषयस्य (रजतादेः) ज्ञानादिव चतुर्थे भेदो बोध्यः । तत्र आ प्रबन्धं स्थिरत्वादमीषां भावानां स्थायित्वम् । न च चित्तवृत्तिरूपाणामेषामाशुविनाशित्वेन स्थिरत्वं दुर्लभम् , वासनारूपतया स्थिरत्वं तु व्यभिचारिष्वतिप्रसक्तमिति वाच्यम् ।
इति वाच्यम् । सर्वचेष्टाराहित्यरूपेणैव तदभिनयसंभवादित्याहुः । अत एव च उक्तरीत्या तत्र तस्य रसवादेव च । व्यवस्थापितमित्यत्रान्वयः । कंचित्कंचिदपि । नाट्येऽपि शान्तो रस इति । अत एव प्रबोधचन्द्रोदयस्य नाटकवं खीकृतं सर्वैः । अभ्युपेत्याह-यैरपीति । अत एव काव्ये आवश्यकलादेव । उपसमहार्परुपसंहारं कृतवन्तः । तथा च तेषां नवले न विवाद इति भावः । अमीषां च शृङ्गारादीनां च । मतयोरभिनवगुप्तभट्टनायकोक्तयोः । तृतीये नव्यमते । चतुर्थे परे विति मते । ननु पारमार्थिकस्थिरत्वाभावात्कथं स्थायिलमत आह-तत्रेति । काव्यादावित्यर्थः । नयतीत्यत्र