________________
१२०
काव्यमाला।
'अर्घ दानववैरिणा गिरिजयाप्य शिवस्याहृतं
देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति । गङ्गा सागरमम्बरं शशिकला नागाधिपः मातलं
सर्वज्ञत्वमधीश्वरत्वमगमत्त्वां मां च भिक्षाटनम् ॥' अत्र सर्वज्ञः सर्वेश्वरोऽसीति राज्ञः स्तुत्या व्याजरूपया मदीयवैदुप्यादि दारिद्यादि जानन्नपि बहुप्रदानेन रक्षितुं शक्तो मह्यं किमपि न ददासीति निन्दा व्यज्यते' इत्युक्तं च । तन्न ।।
'साधु दूति पुनः साधु कर्तव्यं किमतः परम् ।
यन्मदर्थे विलूनासि दन्तैरपि नखैरपि ।' इत्यनुपदमेव त्वदुदाहृतपद्येनास्यातितमां वैलक्षण्यात् । तत्र हि साधु किमतःपरं कर्तव्यमिति वर्णैरुदीरिता साधुकारिणीत्वरूपा स्तुतिः श्रुतमात्रैव बाधिता सती विपरीतेऽर्थे खात्मसमर्पणेन पर्यवस्यति । इह तु सर्वज्ञत्वमधीश्वरत्वं च न तथा । राजवर्णनप्रस्तावे राजगताज्ञत्वपामरत्वयोरविवक्षितत्वात् । अत एव सर्वज्ञोऽपि मां न रक्षितवानसि इत्युपालम्भरूपापि निन्दा नात्र विवक्षिता । सर्वज्ञस्य समर्थस्य तव दरिद्रोऽहं रक्षितुं योग्य इति खविज्ञापनाया एव प्रत्युत विवक्षितत्वात् । अस्तु वा त्वदुक्तोपालम्भरूपा निन्दात्र गम्या । तुष्यतु भवानेवमपि । 'साधु दूति पुनः साधु' इति पद्ये साधुकारिणीत्वमिव नास्मिन्पद्ये सर्वज्ञत्वमधीश्वरत्वं च विद्युद्भङ्गुरप्रतिभमिति शक्यं वक्तुम् । उपालम्भरूपाया निन्दाया अनुत्थानापत्तेः प्रतीतिविरोधाचेति सहृदयैराकलनीयं किमुक्तं द्रविडपुंगवेनेति ।
इति रसगङ्गाधरे व्याजस्तुतिप्रकरणम् ।
किंचित्कर इत्यसकृदावेदितम् । द्रविडपुंगवेनेति । अतिचिरकालं कृतया सेवया दुःखितस्य ततोऽप्राप्तधनस्य भिक्षो राजसेवां त्यक्तुमिच्छत ईदृशवाक्ये वक्तृवैषिष्ट्यादिसहकारेणापातप्रतीयमानस्तुतेनिन्दापर्यवसायितया विद्युद्भङ्गुरप्रतिभखमस्त्येवेति सम्यगेवोकं द्रविडशिरोमणिना । पूर्वोक्तरीत्या वस्य भिक्षाटनोक्या चकारेण च तत्त्वस्यानुभवसिद्धत्वात् । साधु दूतीत्युदाहरणेऽपि दूत्या दुश्चरितवादिवैशिष्ट्यं प्रमाणान्तरेण प्रागेव जानतां वाच्यार्थे बाधज्ञानं स्पष्टमेव । 'कस्तं वानर' इत्यत्राप्यविश