________________
काव्यमाला।
शिरश्छेदः कारणरूपो गम्यते । एवमन्यत्रापि पर्यायोक्तं ज्ञेयम्' इति त्वदुपजीव्यग्रन्थविरोधाच्च । तस्मादत्र राहुशिरश्छेदकारित्वेनावगमः पर्यायोतस्य विषयः, न तु भगवद्रूपेणेति सहृदयैराकलनीयम् ।
अस्मिंश्चालंकारे व्यङ्ग्यं वाच्यपरम् । अप्रस्तुतप्रशंसायां तु वाच्यं व्यङ्गयपरम् । तेनायमलंकारो वाच्यसिद्ध्यङ्गगुणीभूतव्यङ्ग्य भेद इति ध्वनिकारानुयायिनः । यत्तु
"खसिद्धये पराक्षेपः परार्थ खसमर्पणम् ।।
उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ।' इत्युक्तयुक्त्या लक्षणाद्वयाश्रितत्वादनयोरवान्तरोऽपि विषयभेदोऽस्ति" इति स्खमूलग्रन्थाशयं वर्णयता विमर्शिनीकारेणोक्तम् , तन्न । नहि 'चक्राभिघातप्रसभाज्ञयैव-' इति पद्ये चुम्बनमात्रशेषरतोत्सवांशे बाधोऽस्ति । येन लक्षणा स्यात् । एवमप्रस्तुतप्रशंसायामप्यप्रस्तुतस्य प्रस्तुते न लक्षणा, किं तु व्यञ्जनैवेति सर्वसंमतम् । अन्यथा पर्यायोक्ते वाच्यस्य प्राधान्यम् , अप्रस्तुतप्रशंसायां तु गम्यस्येति सिद्धान्तस्य भङ्गः स्यात् । लक्षणायां हि लक्ष्यस्यैव प्राधान्यं स्यात् , न वाच्यस्य । यत्र वाच्योऽर्थोऽर्थान्तरं खोपस्कारकत्वेनागूरयति तत्र पर्यायोक्तम् । यत्र खात्मानमेवाप्रस्तुतत्वात्प्रस्तुतमर्थान्तरं प्रति समर्पयति तत्राप्रस्तुतप्रशंसेति तन्मूलग्रन्थविरोधाच्च । नहि लक्षणा आगूरणं भवति । तस्मात्पर्यायोक्ते वाच्यस्य प्राधान्यम् , अप्रस्तुतप्रशंसायां तु नेति तन्मूलग्रन्थस्य तात्पर्यम् । इदं तु बोध्यम्-ध्वनिकारात्प्राचीन महोद्भटप्रभृतिभिः खग्रन्थेषु कुत्रापि ध्वनिगुणीभूतव्यङ्ग्यादिशब्दा न प्रयुक्ता इत्येतावतैव तैर्ध्वन्यादयो न वीक्रि
तत्स्वीकारे प्रकृते तेनैव गतार्थता स्पष्टैव । न चास्मिन्नलंकारे व्यङ्ग्यं वाच्यपरमप्रस्तुतप्रशंसायां तु वाच्यं व्यङ्ग्यपरमतः सा नेति वाच्यम् । 'कस्त्वं भोः-' इत्यादावप्रस्तुतप्रशंसायां व्यङ्ग्यस्य वाच्याङ्गखेन तस्या भेदकत्वात् । प्राचीनग्रन्थविरोधस्तु तत्र तदूषणप्रवृत्तस्य भूषणमेव । एवं च सर्वखलोचनकृतः क्लेशो व्यर्थो दुष्टश्चेत्यपि सम्यगेवेति । कश्चित्तु-"यच्छब्दस्य बुद्धिस्थत्वं शक्यतावच्छेदकमिति मते 'नमस्तस्मै-'इत्युदाहरणम् , तत्तद्रूपेण सर्वनाम्नां शक्तिरिति मते तु 'निवेद्यतां हन्त-' इत्यादि" इत्याह । तै महा