________________
काव्यमाला ।
केषामरिक्षितिभृतां नवराज्यलक्ष्मीः स्वामित्रतात्वमपरिस्खलितं बभार ॥'
अत्र सर्वापि शत्रूणां राज्यसंपत्त्वां प्राप्तेति विवक्षितोऽर्थो न ताद्रूप्येणाभिहितः, अपि तु स्खलितपातित्रत्या बभूवेत्याकारेण ।
यथा वा
४१०
'सूर्याचन्द्रमसौ यस्य वासो रञ्जयतः करैः । अङ्गरागं सृजत्यग्निस्तं वन्दे परमेश्वरम् ॥'
अत्रापि गगनाम्बर इति सूर्यचन्द्रकररज्यमानवस्त्र इत्याकारेण भस्माङ्गराग इत्यग्निसृज्यमानाङ्गराग इत्याकारेण च निरूपितः ।
‘अस्यां च गम्यस्य येनाकारेण गम्यता तदतिरिक्ताकारेण वाच्यता । तेन पर्यायेण भङ्गयन्तरेणोक्तमहितं व्यङ्ग्यं यत्रेति प्राचीनैर्निर्मितं लक्षणं व्यङ्ग्यत्ववाच्यत्वयोर्विरोधादसंगतमिति नाशङ्कनीयम् । एकस्यैव प्रकारभेदेन वाच्यत्वव्यङ्ग्यत्वयोरविरोधात् । यथा यावकमहारजनदाडिमीजपाकुसुमादिरूपाणां रक्तत्वादिना वाच्यत्वेऽपि तत्तद्वैजात्यरूपेण प्रत्यक्षत्वमेव न तु वाच्यत्वम्, एवमिहापि' इति मम्मटभट्टाः । अलंकार - सर्वस्वकारस्तु –—–— 'गम्यस्यापि भयन्तरेणाभिधानं पर्यायोक्तम् । गम्यस्यैव 1 सतः कथमभिधानमिति चेत्, कार्यादिद्वारेण' इत्याह । तस्यायमाशयः‘चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य ।
-
आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम् ॥'
--
इति प्राचीनपद्ये राहुशिरश्छेदकारीति व्यङ्ग्यं राहुवधूजन संबन्धिचुम्बनमात्रावशिष्टरतोत्सव निर्मातृत्वेन रूपेण प्रकारान्तरेणाभिधीयत इत्यस्यापि विवेचने क्रियमाणे राहुशिरश्छेदकर्तृत्वरूपो धर्मः खसमानाधिकरणेन तादृशरूपान्तरेण साक्षादुपात्तेन गम्यत इत्येव पर्यवस्यति । भगवतस्तु पूर्वप्रक्रान्तत्वाद्यच्छब्देनाभिहितत्वाच्च न व्यङ्ग्यत्वम् ।
एवम्—
'यं प्रेक्ष्य चिररूढापि निवासप्रीतिरुज्झिता । मदेनैरावणमुखे मानेन हृदये हरेः ॥'