________________
४०८
काव्यमाला ।
भूतराजवृत्तान्तरूपव्यङ्गयेऽस्मिन्पद्ये कोऽलंकारः । न तावदियम् । प्रस्तुतस्यैव प्रशंसनात् । नापि समासोक्तिः । तजीवातोर्विशेषणसाम्यस्य सकलालंकारिकसंमतस्यात्राभावात् । न च विशेषणसाम्यप्रकार इव शुद्धसादृश्यमूलोऽपि तस्या एव प्रकारो वाच्यः । एकधर्मालीढत्वमन्तरेणैकालंकारत्वे सर्वेषामेकालंकारत्वापत्तेः । व्यवस्थापकैस्तद्भेदताया अनुक्तेश्च । अत एवालंकारसर्वखकारादिभिर्विशेषणवाचिशब्दसाम्यं संरक्ष्यैव समासान्तराश्रयेण सादृश्यमूलत्वं प्रदर्शितम् , न तु तदुपेक्ष्येति चेत् । उच्यते-अप्रस्तुतप्रशंसैवात्रालंकारः । अप्रस्तुतस्स प्रशंसेति न तदर्थः । किं त्वप्रस्तुतेनेति । सा चार्थात्प्रस्तुतस्यैव । एवं च वाच्येन व्यक्तेन वा अप्रस्तुतेन वाच्यं व्यक्तं वा प्रस्तुतं यत्र सादृश्याधन्यतमप्रकारेण प्रशस्यते साप्रस्तुतप्रशंसेति । न तु वाच्येनैव व्यङ्ग्यमेवेति । स्यादेतत् । 'कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम्' इत्यादाविवात्रापि निगीर्याध्यवसानेनैवोपपत्तिः शक्या कर्तुम् । तच्च पदार्थेन पदार्थस्य वाक्यार्थेन वाक्यार्थस्य वा इत्यन्यदेतत् । अन्वयानुपपत्तिरपि लक्षणवीजम् । एवं चातिशयोक्त्यैवोपपत्तौ किं साहश्यमूलाप्रस्तुतप्रशंसयेति । ननु निगीर्याध्यवसानं हि न तावदत्र संभवति । तत्र हि वाच्यतावच्छेदकरूपेण लक्ष्यस्य प्रतीतिः, इह तु वाच्यताटस्थ्ये
प्रस्तुतप्रशंसायाः । प्रकारो भेदः । व्यक्तेन व्यङ्ग्येन। तच्च निगीर्याध्यवसानं च । अन्वयानुपपत्तेर्लक्षणाबीजस्यात्राभावादाह-अन्वयेति । किं सादृश्येति । अत्रायं समाधिः-वाक्ये शक्त्यभावेन लक्षणा वक्तुमशक्या । किं च लक्षणायां गङ्गायां घोष इत्यादाविव वाच्यामेदप्रतीत्यापत्तिः । सा चानिष्टा । ताटस्थ्येनैव प्रस्तुतार्थप्रतीतेः सहृदयानुभवसिद्धलात् । तृतीयस्य लक्षणाहेतोरभावादिति शङ्कां द्रढयितुं शङ्कतेनन्विति । तत्र हि रूपकातिशयोक्त्युदाहरणे कमलमित्यादौ हि । इह तु अप्रस्तुतप्रशंसोदाहरणविशेषे प्रागुक्ते । एकधर्मालीढत्वमिति । अत्रेदं चिन्त्यम्-अतिशयोक्त्यादिवत्प्रकृते सादृश्याद्यन्यतमप्रकारनिवेशवच्चान्यतरहेतुकाप्रस्तुतवृत्तान्तारोपवरूपैकधर्मालीढबसंभवेन समासोक्तेरेवात्राङ्गीकारे बाधकाभावः । किं चाप्रस्तुतेन प्रस्तुतं प्रशस्यत इत्यस्य कोऽर्थः । यद्युत्कर्षाधानं तर्हि प्रतीयमानार्थानध्यारोपविषयेषु दिगन्ते श्रूयन्त इत्याद्युदाहरणेष्वव्याप्तिः । नहि ताटस्थ्येन स्थितोऽप्यर्थो वाच्योत्कर्षक इति युक्तं सहृदयसंमतं वा । यदि प्रतीतिमात्रं तर्हि न प्रकृते । न ह्यत्राप्रस्तुतेन प्रस्तुतस्य प्रतीतिः । अप्रस्तुतेन प्रस्तुतार्थप्रतीतिमात्रकृत एव चमत्कार इति तन्मतेऽलं