________________
४०४
काव्यमाला। इयं च सादृश्यमूलाप्रस्तुतप्रशंसोच्यते । अस्यां च वाक्यार्थः कचित्प्रतीयमानार्थताटस्थ्येनैवावतिष्ठते यथोक्तोदाहरणेषु । कचिच्च खगतविशेषणान्वययोग्यतामासादयितुं प्रतीयमानायेदमपेक्षते । यथा
'समुपागतवति दैवादवहेलां कुटज मधुकरे मा गाः ।
मकरन्दतुन्दिलानामरविन्दानामयं महामान्यः ॥' यथा वा'तावत्कोकिल दिवसान्यापय विरसान्वनान्तरे निवसन् ।
यावन्मिलदलिमालः कोऽपि रसालः समुल्लसति ॥' अत्र वृक्षपक्षिणोः संबोधनानुपपत्त्या प्रतीयमानांशतादात्म्यमपेक्ष्यते । 'मलिनेऽपि रागपूर्णा विकसितवदनामनल्पजल्पेऽपि ।
त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥' अत्र त्यागानौचित्यहेतुत्वेन कमलिन्याः स्तुतिरूपं विशेषणमुपात्तम् । तच न संभवति । नहि भ्रमरे श्यामत्वादिदोषः कमलिन्याः शोणत्वादिर्वा गुणः येन स्तुतिः स्यात् । अतो वाच्यार्थस्य प्रतीयमानतादात्म्यं विशेष्यांशे विशेषणांशे चापेक्ष्यते । पूर्वत्रांशेन इह तु साकल्येनेति विशेषः । क्वचिच्च प्रतीयमानमपि किंचिदंशे वाच्यतादात्म्यं वाच्यं च किंचिदंशे प्रतीयमानतादात्म्यमपेक्षते । यथा
'सरजस्कां पाण्डुवर्णों कण्टकप्रकराङ्किताम् ।
केतकी सेवसे हन्त कथं रोलम्ब निपस्त्रपः ॥' अत्र यथा सरजस्कत्वं वाच्यप्रतीयमानयोरुभयोरपि सेवनानौचित्ये निमित्तं न तथा पाण्डुवर्णत्वकण्टकितत्वे । यतः पाण्डुवर्णत्वं केतक्यां न दोषः, प्रत्युत गुण एवेति पाण्डुरत्वांशे केतक्यां नायिकातादात्म्यमपेक्ष्यते । नायिकायां च कण्टकितत्वांशे केतकितादात्म्यम् । पुलकितत्वस्य कामिनीत्यागाननुगुणत्वात्प्रत्युत तत्सेवनानुगुणत्वात् ।
मम्मटोक्तिमाह-समेति । इयं श्लिष्टविशेषणा । अस्यामप्रस्तुतप्रशंसायाम् । यथोकेति । दिगन्त इत्यादिष्वित्यर्थः । विशेष्यांशे विशेषणांशे. चेति । संबोधनानुपपत्त्या विशेष्यांशे श्यामलादेविशेषणवाद्युपपत्तये विशेषणांशे चेत्यर्थः । रोलम्बो