________________
रसगङ्गाधरः।
३९३ अत्र प्रकृताप्रकृतयोर्भीष्ममाघयोरश्लिष्टत्वाद्विशेषणानां च श्लिष्टत्वाद्भवति तृतीयो भेदः । परं तूपमया संकीर्णः । यदि च 'माघो महात्माजनि हन्त भीष्मः' इत्यप्रकृतांशमपि श्लेषग्रस्तं कृत्वा रूपकं क्रियते, तथापि प्रकृतविशेष्यस्य माघस्याश्लिष्टत्वादखण्डित एव श्लेषः । न चात्र समासोक्तिरिति भ्रमितव्यम् । अप्रकृतधर्मिणोऽपि शब्दवाच्यत्वात् । यत्र त्वप्रकृतव्यवहार एव शब्दशक्तिं सहेतापि, न त्वप्रकृतधर्मी तत्र समासोक्तेरिष्टेः । ___ अत्र विचार्यते-अयं चालंकारः प्रायेणालंकारान्तरस्य विषयमभिनिविशते तत्र किमस्य बाधकत्वं स्यादाहोखित्संकीर्णत्वमुताहो बाध्यत्वमिति । अत्राहुरुद्भटाचार्याः-"येन नाप्राप्ते य आरभ्यते स तस्य बाधकः' इति न्यायेनालंकारान्तरविषय एवायमारभ्यमाणोऽलंकारान्तरं बाधते । न चास्य विविक्तः कश्चिदस्ति विषयो यत्र सावकाशो नान्यं बाधेत । तथाहि अप्रकृतमात्रयोः प्रकृतमात्रयोर्वा तावत्तुल्ययोगितैव जागर्ति । प्रकृता-. प्रकृतयोस्तु दीपकम् । तदनुमोदिता उपमादयश्च । न च
'देव त्वमेव पातालमाशानां त्वं निबन्धनम् । त्वं चामरमरुभूमिरेको लोकत्रयात्मकः ॥'
मानी अभिमानी अत्यन्तं हिमसंहत्या परिदीर्णानि गात्राणि येन स च । फाल्गुनोऽर्जुनो मासश्च । अत्यन्तमाकासितः कृष्णस्य मार्गो येन अत्यन्तमाकाङ्कितः कृष्णवमाग्निर्यस्मिन्स च । भीष्मो गाङ्गेयः । माघो मासः । संकीर्ण इति । तुल्यपदोकेरिति भावः । पूर्व भीष्मस्योद्देश्यत्वं तत्तुल्यत्वस्य विधेयत्वम् , अधुना तद्वैपरीयेनाहयदीति । श्लेषेति । गाङ्गेयवद्भयानकस्यापि प्रतीतेरिति भावः । अखण्डित एव श्लेष इति । शब्दशक्तिमूलध्वनिना न खण्डित इत्यर्थः । क तर्हि समासोक्तिरत आह-योति । अपिः संभावनायाम् । अत्र श्लेषविषये । अत एवाह-अयं चेति। श्लेष इत्यर्थः । विविक्तविषयस्यापि वक्ष्यमाणलादाह-प्रायेणेति । अभीति । व्यामोतीत्यर्थः । उताहो अथवा । येनेति । प्राप्त इति भावे क्तः । येनेति कर्तरि तृतीया । नद्वयस्य प्रकृतदायबोधकत्वम् । तथा च यत्कर्तृकस्य प्राप्तौ यत्रारभ्यमाणः स तस्य बाधक इत्यर्थः । तदप्राप्तियोग्येऽचारितार्थ्यं हि बाधकताबीजम् । एवव्यवच्छेद्यं स्पष्टार्थमाह-न चेति । नहीयर्थः । तावदादौ । अलमत्यन्तम् । पाता रक्षिता पाताललोकश्च । आशानां मनोरथानां दिशां च । अमराणां देवानां मरुद्गणानां च भूमिः