________________
३८२
एवं च
काव्यमाला ।
'परिफुल्लाब्जनयना चन्द्रिकाचारुहासिनी । हंसावलीहारयुता शरद्विजयतेतराम् ॥'
इत्यत्रोपमारूपकयोः साधकस्य बाधकस्य चाभावात्सं करालंकारखी कर्तृनये तदुभयसंशयात्मक एकदेशविवर्ती संकरालंकार एव । तदखीकर्तृनये च यदोपमितसमासस्फूर्तिस्तदैकदेशविवर्तिन्युपमा, विशेषणसमासस्फूर्ती तथाविधमेव रूपकमिति प्रथमयोजनयैवाप्रकृतार्थावगतेर्द्वितीययोजनायाः 'परिफुल्लाब्जानीव नयनानीत्युपमागर्भाया वैयर्थ्यादनुत्थानमेव । यदा तु 'शरद्वर्षासखी बभौ ' इति चतुर्थचरणं निर्मायते तदा तु शरन्मात्रवृत्तेर्वर्षासखीत्वस्योपादानादब्जचन्द्रिकाहंसप्रधानस्योपमितसमासस्यावश्यकत्वात्प्रथमप्रादुभूतया नयनहासहाराक्षिप्तकामिनीरूपोपमानिकया। अतएवैकदेशविवर्तिन्योपमयैव निर्वाह इति निवेदितमपि सहृदयप्रीतये पुनर्निवेदितम् ।
'अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा । कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥' इति कस्यचित्पद्ये प्रावृष एकदेशविवर्तिरूपकेणाङ्गनात्वसिद्धिरिति नोचरार्घगतार्थान्तरन्यासानुपपत्तिः । प्रथमचरणे तूपगूहनसाम्यादस्तु नाम समासोक्तिः ।
यत्तु कुवलयानन्दे " सारूप्यादपि समासोक्तिर्दृश्यते । यथा'पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां
विपर्यासं यातो घनविरलभावः क्षितिरुहाम् । बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं
निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥'
मेदानङ्गीकारे च । उपमेति । यथासंख्यमन्वयः । तदिति । संकरालंकारेत्यर्थः । चस्त्वर्थे । विशेषणेति । मयूरव्यंसकेतीत्यर्थः । तथाविधमेव एकदेशविवर्त्येव । 'चरणोऽस्त्रियाम्' इत्युक्तेर्नपुंसकत्वम् । तुरुक्तवैलक्षण्ये । एकदेशविवर्तीति । शान्ततडित्कटाक्षेत्यत्रत्येनेत्यर्थः । उपगूहनेति । आलिङ्गनेत्यर्थः । सारूप्यात् सादृश्यात् । पुरेति । उत्तरराघवे सीतात्यागानन्तरं कदाचिद्वनं गतस्य श्रीरामस्योक्तिरियम् ।