________________
रसगङ्गाधरः।
३६५
ताप्रस्तुतधामवशेषणमात्रश्रुत्युपलबकोक्तिः । शब्दपथापनद्वारा
अथ समासोक्तिः
यत्र प्रस्तुतधर्मिको व्यवहारः साधारणविशेषणमात्रोपस्थापिताप्रस्तुतधर्मिकव्यवहाराभेदेन भासते सा समासोक्तिः॥
साधारणविशेषणमात्रश्रुत्युपस्थापिताप्रकृतधर्मिकव्यवहाराभिन्नत्वेन भास-. मानप्रकृतधर्मिकव्यवहारत्वमिति चैकोक्तिः । शब्दशक्तिमूलध्वनिवारणाय मात्रेति । तत्र विशेष्यस्यापि श्लिष्टतया प्रकृतेतरधर्म्युपस्थापनद्वारा तादृशधर्मिकव्यवहारोपस्थापकत्वात् । एवमपि 'आबध्नास्यलकान्निरस्यसि तमां चोलं रसाकाङ्ख्या
लङ्कायावश्यतां तनोषि कुरुषे बवाललाटक्षतम् । प्रत्यङ्गं परिमर्दनिर्दयमहो चेतः समालम्बसे
वामानां विषये नृपेन्द्र भवतः प्रागल्भ्यमत्यद्भुतम् ॥' इत्यत्र प्रकृतधर्मिकप्रकृताप्रकृतव्यवहारविषयके श्लेषेऽतिव्याप्तेरिणाय प्रस्तुताप्रस्तुतत्वे धर्मिविशेषणतयोपात्ते । व्यवहारविशेषणत्वेन तयोरुपादाने तु साधारणविशेषणमात्रश्रुत्युपस्थापिताप्रकृतशृङ्गारवृत्तान्ताभिन्नत्वेन स्थित एवात्र प्रकृतो वीरवृत्तान्त इति स्यादेवातिप्रसङ्गः । न चात्र राज्ञो वर्णनस्य प्रस्तुतत्वात्तद्गतयोर्द्वयोरपि वृत्तान्तयोः प्रस्तुतत्वमिति कथमतिप्रसङ्ग इति वाच्यम् । न स्यादतिप्रसङ्गः, यदि वर्णनमात्रं प्रस्तुतं स्यात् । तत्सभामादौ वीरतामात्रवर्णनप्रस्तावे तु स्यादेवातिप्रसङ्गः।
'मलिनेऽपि रागपूर्णा विकसितवदनामनल्पजल्पेऽपि । त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥'
समासोक्किं निरूपयति-अथेति । वाक्येनोक्तमर्थं सामस्त्येनाह-साधारणेति । मात्रपददानफलमाह-शब्देति । तत्र शब्ददशक्किमूलध्वनौ। अपिना विशेषणसमुच्चयः। तादृशेति । अप्रकृतेत्यर्थः । अलकाः केशाः, अलका कुबेरपुरी। चोलः कञ्चकः, देशश्च । साकायेति पूर्वान्वयि । रसः शृङ्गारः, वीरश्च । अलं कायस्यावशताम् , लङ्काया वशतां च । जवाललाटसमाहारक्षतम् , जङ्घाल-लाटदेशयो शं चेत्यर्थः । अहो इत्याश्चर्ये । हे नृपेन्द्र, भवतः परिमर्दनिर्दयं चेतः प्रत्यङ्गं प्रत्यवयवं अङ्गमङ्गदेशं च समालम्बते। वामानां सुन्दरीणाम् , वक्राणां शत्रूणां च । प्रकृतेति । राजेत्यर्थः । तयोः प्रस्तुतलाप्रस्तुत. बयोः । तत्सङ्ग्रामादौ राजसङ्ग्रामादौ । मात्रवर्णनेति । वर्णनमात्रेत्यर्थः । क्वचित्तथैव पाठः । मलिनेऽपीत्यादिसप्तम्यन्तानि लयीत्यस्य विशेषणानि। उपात्तत्वं विशेष्ये अन्वेति ।