________________
२६६
काव्यमाला 1
'मृणालमन्दानिलचन्दनानामुशीरशैवालकुशेशयानाम् । वियोगदूरीकृतचेतनाया विनैव शैत्यं भवति प्रतीतिः ॥' अत्र शैत्यस्याविनाभावेऽपि विनाभावो निबद्धः । यथा वा
" शैत्यं विना न चन्द्रश्रीर्न दीपः प्रभया विना । न सौगन्ध्यं विना भाति मालती कुसुमोत्करः ॥' अलंकारान्तरसमालिङ्गनाविर्भूतमेवास्या हृद्यत्वम्, न खतः । तेनालंकारान्तरत्वमपि शिथिलमेवेत्यपि वदन्ति । अथास्या ध्वनिः
यथा
'विशालाभ्यामाभ्यां किमिह नयनाभ्यां फलमसौ नाभ्यामालीढा परमरमणीया तव तनुः । अयं तु न्यक्कारः श्रवणयुगलस्य त्रिपथगे यदन्तर्नायातस्तव लहरिलीलाकलकल: ॥' अत्र त्वद्दर्शनं विना नयनयोः, त्वल्लहरिकोलाहलश्रवणं विना श्रव - णयोश्चारमणीयत्वं फलप्रश्न धिक्काराभ्यां व्यज्यते । तस्य च भावध्वन्यनुग्राहकत्वेऽपि ध्वनिव्यपदेश्यत्वमव्याहतम् । अन्यथानुग्राहकत्वलक्षणसंकरोच्छेदापत्तेः । एवं च -
'निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव कृता विनिद्रा नलिनी न येन ॥"
इति कस्यचित्कवेः पद्यं विनोक्तिध्वनिरेव । परंतु परस्परविनोक्तिवशाद्वैलक्षण्यशालि ।
इति रसगङ्गाधरे विनोतिप्रकरणम् ।
चैत्यं विनैव तेषां प्रतीतिर्भवतीत्यर्थः । शैत्यस्येति । मृणालादीति सहेति शेषः । एवं · रमणीयत्वे उदाहरणं दत्त्वा अरमणीयत्त्वे उदाहरति — यथेति । आलीढा दृष्टा । न्यक्कारस्तिरस्कारः । यदन्तरिति । श्रवणयुगलान्तरित्यर्थः । त्वद्दर्शनं भागीरथीदर्शनम् । तस्य च व्यज्यमानारमणीयत्वस्य च । भावेति । कविनिष्ठगङ्गाविषयकेत्यादिः । अन्यथा अनुग्राहकत्वात्तद्यपदेशानङ्गीकारे । एवं च तस्य तद्यपदेश्यले च । वैलक्षण्येति । पूर्वोदाहरणापेक्षयेति भावः ॥ इति रसगङ्गाधर मर्मप्रकाशे विनोतिप्रकरणम् ॥