________________
३२४
काव्यमाला।
अत्र वृत्तिहीनस्य कस्यचिद्दीनस्य वचने वसुदानखत्राणलक्षणयोः क्रिययोः प्रकृतयोः, अरिमर्दनस्य चाप्रकृतस्य, यशोधानस्य चोभयात्मनः साधारणं कर्तृकारकम् । यथा'वासयति हीनसंत्त्वानतिसत्त्वानुद्धतान्विवासयति ।
त्रासयति सकलशत्रून्नीतिविदामग्रणीनराधिपतिः ॥' अत्र कस्यचिद्धीनसत्त्वस्य, सत्त्वाधिकमसहमानस्य वा, शत्रुपरिपीडितस्य वा कस्यचिद्राजानं कंचित्प्रयुक्तौ सामान्यविशेषरूपायामप्रस्तुतप्रशंसायामेकस्याः क्रियायाः प्रकृतायाः इतरयोश्चाप्रकृतयोः साधारणं तत् । यदि तु प्रागुक्तवत्तृभिन्नस्य कस्यचिद्राजस्तोतुर्नीतिमात्रबोधकस्य चेयमुक्तिस्तदा क्रियाणां प्रकृताप्रकृतरूपत्वाभावात्तुल्ययोगितैव । यत्तु
‘सकृद्धृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् ।
सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ॥' इति लक्षणमुक्त्वा 'विद्यति कूणति वेल्लति विवलति निमिषति विलोकयति तिर्यक् ।
अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ।' इति द्वितीयं दीपकमुदाहृतं काव्यप्रकाशकृद्भिः । तत्र विचार्यतेप्रथमाधगतलक्षणेनैव दीपकद्वयस्यापि संग्रहाद्वितीयं लक्षणं व्यर्थम् । गुणिनां कारकाणां च गुणक्रियारूपधर्मस्येव क्रियाणामपि कारकरूपधर्मस्य सकृद्वृत्तेः साम्राज्यात् । न च क्रियाणां प्रकृताप्रकृतात्मताविरहेऽपि शुद्धप्रकृतत्वे शुद्धाप्रकृत्वेऽपि वा कारकस्य सकृद्वृत्तेर्दीपकत्वम् , क्रियाभिन्नानां तु प्रकृताप्रकृतात्मतायामेव क्रियादेधर्मस्येति वैलक्षण्याल्लक्षण
कर्मकरणाधिकरणानि ग्राह्याणि । मन्दाक्षं लज्जाम् । वृत्तीति । जीवनेत्यर्थः । पद्यक्रमेणोक्तिक्रममाह-अत्रेति । अप्रस्तुतप्रशंसाया अनेकविधवादाह-सामान्येति । पूर्वार्धन सामान्यतो राजस्तुतिः, उत्तरार्धन विशेषत इति भावः । एकस्या इति । यदीयोक्तिस्तदीयाया इत्यर्थः । तत्कर्तृकारकम् । नीतिविदामग्रणीरित्युक्तवादाह -नीतीति । धर्मस्य क्रियादेः । प्रकृतात्मनां कारकाणाम् । सैव सकृद्वृत्तिरेव । कूणति संकुचति । वेल्लति श्लिष्यति । क्रियाभिन्नानामिति । गुणिनां कारकाणां चेत्यर्थः ।