________________
३१४
काव्यमाला ।
न्यतमत्वमनुगतमिति शक्यते वक्तुम् । विच्छित्तिवैलक्षण्ये सत्यन्यतमत्वयाप्रयोजकत्वात् । अन्यथोपमारूपकादिकतिपयान्यतमत्वं सकलान्यतमत्वं वा तल्लक्षणम् । उपमादयश्च तद्भेदा इत्येव किं न ब्रूयाः । अलंकारान्तरत्वे गौरवमित्यपि न वाच्यम् । नात्र क्लृप्तपदार्थकल्पनं येन गौरवं स्यात् । प्रधानोत्कर्षतारूपस्यालंकारस्वस्य त्वयापि स्वीकारात् । अलंकार विभाजकोपाघिपरिगणनस्य च पुरुषपरिकल्पितत्वात् । इत्यपि वदन्ति ।
'गगनचरं जलबिम्बं कथमिव पूर्ण वदन्ति विद्वांसः । दशरथचत्वरचारी हृज्ज्वरहारी विधुस्तु परिपूर्णः ॥' इत्यादौ विषयिणः खाभाविकस्य निहवेन दृढाध्यवसानातिशयोक्तिः । यत्तु कुवलयानन्दे—
'यद्यपह्नवगर्भत्वं सैव सापह्नवा मता ।
त्वत्सूक्तिषु सुधा राजन्भ्रान्ताः पश्यन्ति तां विधौ ॥'
इत्यत्र पर्यस्तापह्नुतिगर्भामतिशयोक्तिमाहुस्तच्चिन्त्यम् । पर्यस्तापह्नुतेरपहुतित्वं न प्रामाणिकसंमतमिति प्रागेवावेदनात् ।
यदपि तैरेवोक्तम्—
'संबन्धातिशयोक्तिः स्यादयोगे योगकल्पनम् ।
सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम् ||' इति ।
तथा च तेन रूपेण कदापि बोधाभावे न तद्रूपस्याभेदस्य भेदेन त्वदुक्तं निगरणमसंगतमिति भावः । तेषामननुगतत्वादिति निगीर्य प्रकृतस्य समेनाध्यवसानं भेदेनाभेदस्य संबन्धेनासंबन्धस्यत्यादि क सकल साधारण स्यैकस्य धर्मस्याभावादतिशयोक्तिलक्षणस्याननुगतत्वापत्तिरिति भावः । वैलक्षण्ये सतीति । तथा च भिन्नभिन्न एवालंकार इति भावः । अभ्युपेत्याह - अन्यथोपमेति । प्रागुक्तरीत्या आह - कतिपयेति । यस्य कस्यचिदतिशयस्य सर्वत्र सत्त्वादाह-सकलेति । तल्लक्षणमतिशयोक्तिलक्षणम् । तद्भेदा अतिशयोक्ति मेदाः । ननु गौरवादाधिक्यं नात आहअलंकारान्तरेति । लृप्तत्वमेवाह - प्रधानोत्कर्षेति । ननु सामान्यतोऽलंकारसत्त्वेऽपि तद्विभाजकोपाधिमध्येऽपाठादाधिक्येन गौरवं तदवस्थमेवात आह- अलंकारेति । दृढाध्यवसानातिशयोक्त्युदाहरणमाह – गगनेति । गगनगामीत्यर्थः । जबिम्बं चन्द्ररूपम् । विधुस्तु श्रीरामचन्द्रस्तु । स्वाभाविकेति । गगनरूपेत्यर्थः । निवेनेति । कथमिवेत्यनेनेति भावः । मूल एक कुठार इत्याह- पर्यस्तेति ।
--