________________
३०२
काव्यमाला । गतत्वेन' इत्यादिना धर्मोत्प्रेक्षाप्रसङ्गे "लिम्पतीव तमोऽङ्गानि इत्यत्र लेपनक्रियाकर्तृत्वोत्प्रेक्षणे व्यापनादि निमित्तम् ।" इत्युक्तम् । तदेतत्सर्व परस्परविरुद्धम् । नहि दुःखगुणोत्प्रेक्षायामभेदगर्भोऽध्यवसायोऽस्ति । मौनांशे सन्नप्यध्यवसायः सिद्धत्वादतिशयोक्तेरेव विषयो भवितुमर्हति, नोत्प्रेक्षायाः । त्वन्मते मौनस्य निमित्तत्वेनानुत्प्रेक्ष्यत्वाच्च । एवं 'लिम्पतीव' इत्यत्र लेपनांशाध्यवसायोऽपि । तस्यापि व्यापनरूपतया स्थितस्य त्वया कर्तृत्वोत्प्रेक्षानिमित्तत्वेनोक्तस्वाच्च । 'व्यापनादौ तूत्प्रेक्षाविषये निमितमन्यदन्वेष्यं स्यात्' इति त्वयैव बाधकोपन्यासात् । निमित्तांशाध्यवसानं तूपमादावपि स्थितम् । किं च,. 'नूनं मुखं चन्द्रः' इत्यादौ कुत्राध्यवसायः । विषयस्य जागरूकत्वात् । न च सिद्धेऽध्यवसाये विषयस्य जठरवर्तित्वम् , साध्ये तु निगीर्यमाणत्वात्पृथगुपलब्धिरिति वाच्यम् । साध्याध्यवसाने मानाभावात् । अन्यथा रूपकादेरप्यध्यवसानगर्भत्वापत्तेः । किं च, अध्यवसानं लक्षणाभेदः । न चात्र विधेयांशे लक्षणास्ति । अभेदादिसंसर्गेराहार्यबोधस्यैव खीकारात् । तस्मात्प्राचीनानामाधुनिकानां चोक्तयो न क्षोदक्षमाः । ___ एवं प्राप्ते ब्रूमः--तत्र तावद्धर्म्युत्प्रेक्षानिष्कर्षः प्राचीनमतपरीक्षावसरे कृत एव । हेतूप्रेक्षायां पञ्चम्यर्थों हेतुः । अभेदश्च प्रकृतिप्रत्ययार्थयोः संसर्ग इति पक्षे 'विश्लेषदुःखाभिन्नहेतुः पञ्चम्यन्तार्थः । तस्य च प्रयोज्यतासंसर्गेणोत्प्रेक्षणमिवादिना बोध्यते । प्रयोज्यत्वं पञ्चम्यर्थ इति दर्शने निरूपितत्वं प्रकृतिप्रत्ययार्थयोः संसर्गः । आश्रयता संसर्गेण चोत्प्रेक्षणम् । उभयथापि पञ्चम्यर्थ एवोत्प्रेक्ष्यः । तेनैवेवाद्यन्वयात् । उत्प्रेक्ष्यतावच्छेदकसंबन्धेनोत्प्रेक्ष्यसमानाधिकरणश्च धर्मोऽतिशयोक्त्या मौनाभिन्न
दुःखरूपगुणोत्प्रेक्षायाम् । अध्यवसाय इति । निःशब्दत्वामेदेत्यादिः । अध्यवसायोऽपीति । सिद्धत्खादित्याद्यर्हतीत्यन्तानुषङ्गः । प्राग्वदाह-तस्यापीति । ननु मया तथोक्तमपि नेदं खण्डितमित्युपलक्षणवेनोह्यमत आह-व्यापनादाविति । इदमन्यत्रापि दृष्टमित्याह-निमित्तांशेति । लक्षणाभेद इति । साध्यवसाना सारोपा चेति भेदकरणादिति भावः । अत्र उत्प्रेक्षायाम् । परीक्षेति । विचारेत्यर्थः । उत्प्रेक्ष्यतावच्छेदकसंबन्धेनेति । स च प्रयोज्यवादिः । आदिना निःशब्दखपरिग्रहः ।