________________
३०१
रसगङ्गाधरः। 'सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुळें । अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥'
अत्रापि मौनहेतुत्वेन नूपुरे विश्लेषदुःखमुत्प्रेक्ष्यते । तत्र निश्चलत्वनिमित्तकनिःशब्दत्वाध्यवसितं मौनं निमित्तम् । विश्लेषदुःखसमानाधिकरणत्वे सति नूपुरवृत्तित्वात् । न तु निश्चलत्वनिमित्तके निःशब्दत्वे विषये विश्लेषदुःखहेतुकमौनमभेदेन । उत्प्रेक्षायामिवशब्दान्वितस्योत्प्रेक्ष्यताया उत्सर्गसिद्धत्वात् । विषयस्य निगीर्णतया विषयिणो विधेयत्वानुपपत्तेश्च । निमित्तान्तरगवेषणापत्तेश्च । यद्यप्येककालप्रभवत्वादिरस्ति साधारणो धर्मो निमित्तम् । तथापि तस्याचमत्कारित्वादुपमायामिवोत्प्रेक्षायामप्यप्रयोजकत्वात्। एवं फलोत्प्रेक्षायामपि बोध्यम् । एतेन 'यद्वा हेतुफलधर्मखरूपोत्प्रेक्षोदाहरणेष्वपि तादात्म्येनैवोत्प्रेक्षा' इति प्राचां मतमनुसरता द्रविडपुंगवेन यदुक्तं तदपि परास्तम् । ___ अलंकारसर्वखकृता तावदुत्प्रेक्षाया लक्षणमित्थं निगदितम्-"विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः । स च द्विविधः-सिद्धः, साध्यश्च । तत्र साध्यत्वप्रतीतौ व्यापारप्राधान्ये उत्प्रेक्षा इति । अस्यार्थः -सिद्धत्वं निगीणविषयत्वम् । साध्यत्वं च निगीर्यमाणविषयत्वम् । यत्र हि सिद्धत्वं तत्राध्यवसितप्राधान्यम् । यथातिशयोक्त्यादौ । यत्र साध्यत्वं तत्र व्यापारस्याध्यवसानक्रियायाः प्राधान्ये उत्प्रेक्षा इति । एवमभेदगर्भमुत्प्रेक्षालक्षणं विधाय 'सैषा स्थली यत्र' इत्यत्र नूपुरगतस्य मौनित्वस्य हेतुत्वेन दुःखं गुण उत्प्रेक्ष्यते । तत्र मौनित्वमेव नूपुरगतनिःशब्दत्वाभेदेनाध्यवसितं निमित्तम् ।" इत्युक्तम् । एवं 'यत्र धर्म एव धर्मि
न्तरमाह-तथेति । सैषेति । लङ्कात अयोध्यागमनावसरे सीतां प्रति श्रीरामचन्द्रोक्तिः। भ्रष्टसिति । पतितमित्यर्थः । तवेति शेषः । मौनं द्विविधम्-निश्चललहेतुकं दुःखहेतुकं च । तयोरमेदमाह-तत्रेति । निःशब्दत्वाध्यवसितमिति । निःशब्दवे तादात्म्येनाध्यवसितमित्यर्थः । तस्योभयनिष्ठखमाह-विश्लेषेति । नन्वाकाङ्क्षादिना तत्रैवान्वयोऽस्तु, अत आह-विषयेति । ननु निगीर्णमादायैव तदत आह-निमित्तान्तरेति । उत्प्रेक्षेतीत्यस्य यदुक्तमित्यत्रान्वयः । द्रविडश्रेष्ठेनाप्पयदीक्षितेनेत्यर्थः । आर्वाचां मतमाह-अलंकारेति । तत्र तयोर्मध्ये । एवमग्रेऽपि । तत्र
२६ रस.