________________
२९०
काव्यमाला |
योत्प्रेक्षा । तत्र शाब्दे वृत्ते बकविशेषणतया प्रतीयमानमपि शब्दनं विषयतयावतिष्ठते । अध्यवसानवशात् । क्रोशनक्रियायां च तादृशबका विशेषणम्, तादृशबकेषु चाभेदेन तादृशशशि किशोराः, न तु शशिकिशोरा एव साक्षात्क्रियायाम् । एवं च बकानामनन्वयापत्तेः विषयविषयिविशेषणानां प्राग्वदेव बिम्बप्रतिबिम्बभावेनाभेदप्रतिपतिः । तथा'राज्याभिषेकमाज्ञाय शम्बरासुरवैरिणः । सुषाभिर्जगतीमध्यं लिम्पतीव सुधाकरः ॥'
अत्रापि चन्द्रे विषये तादृशलेपनकर्तृत्वरूपधर्मोत्प्रेक्षेत्येकं दर्शनम् । किरणव्यापने विषये चन्द्रकर्तृकसुधाकरणकलेपनस्य तादात्म्येनोत्प्रेक्षणमिति द्वितीयम् । तत्र प्रथमे मते धवलीकारकत्वरूपनिमित्तानुपादानादनुपातनिमित्ता, विषयस्योपादानादुपात्तविषया । द्वितीयेऽपि तस्यैव निमित्तस्यानुपादानादनुपात्तनिमित्ता, विषयस्य निगीर्णतयानुपात्तविषयेति विशेषः । तादात्म्येन द्रव्यखरूपोत्प्रेक्षा यथा
'कलिन्दशैलादियमा प्रयागं केनापि दीर्घा परिखा निखाता । मन्ये तलस्पर्श विहीनमस्यामाकाशमानीलमिदं विभाति ॥ ' अत्र यमुनायां नीलत्व दीर्घत्वनिमित्तकमाकाशतादात्म्योत्प्रेक्षणम् ।
1
नवमेदेन के तदुत्प्रेक्षा बाधिता अत आह— तत्रेति । उत्प्रेक्ष्यमाणक्रोशन क्रियाया - मित्यर्थः । वृत्ते बोधे निष्पन्ने वा । अध्यवसानेति । अध्यवसानं च मञ्चाः क्रोशन्तीत्यादिवद्विषयिवाचकशब्देनेति बोध्यम् । तादृशेति । विशेषणद्वयविशिष्टेत्यर्थः । एवमग्रेऽपि । तादृशेति । एकविशेषणविशिष्टेत्यर्थः । क्रियायां क्रोशनेत्यादिः । एवं च एवं सति । एवं च तादृशशशि किशोराभिन्नकर्तृत्वं क्रोशनमिति बोध्यम् । अस्या उदाहरणान्तरमाह— तथेति । शम्बरस्येति । मदनस्येत्यर्थः । प्राग्वदत्रापि मतमेदमाह - अत्रापीति । तादृशेति । सुधाकरणकजगन्मध्यकर्मकेत्यर्थः । चन्द्रेति । तदभिन्नेत्यर्थः । करणकेति । जगन्मध्यकर्मकेत्यपि बोध्यम् । विषयस्य चन्द्रस्य तस्यैव धवलीकारकत्वस्यैव । विषयस्य किरणव्यापनस्य । निगीर्णेति । सुधाभिर्लिम्पतीत्यनेनेति भावः । कलिन्देति । तदाख्यपर्वतादित्यर्थः । इयं दृश्या गर्तरूपा । आ प्रयागं प्रयागमभिव्याप्य । अस्यां परिखायाम् । इदं दृश्यं यमुनारूपम् । ननु प्राग्वजात्युत्प्रेक्षेयं कुतो न अत आह— आकाशेति । इदं च मञ्जूषायां मतं स्पष्टम् ।