________________
रसगडापरः।
२६५
यथा
'अलिमंगो वा नेत्रं वा यत्र किंचिद्विभासते।
अरविन्दं मृगाको वा मुखं वेदं मृगीदृशः ॥' अत्र वक्तुः कवेस्तत्त्वज्ञतया संशयावाहायवेव । परम्परितोऽपि चायं संभवति
'विद्वदैन्यतमस्त्रिमूर्तिरथवा वैरीन्द्रवंशाटवी___ दावाग्निः किमहो महोज्वलयशःशीतांशुदुग्धाम्बुधिः । किं वानङ्गभुजंगदष्टवनिताजीवातुरेवं नृणां
केषामेष नराधिपो न जनयत्यल्पेतराः कल्पनाः ॥' अत्राप्याहार्यः । कचित्परनिष्ठोऽपि कविना निबध्यमान आहार्यो भवति । यथा
'गगनाद्गलितो गभस्तिमानुत वायं शिशिरो विभावसुः। मुनिरेवमरुन्धतीपतिः सकलज्ञः समशेत राघवे ॥' अत्र मुनेर्वसिष्ठस्य सर्वज्ञत्वेनोपात्तस्य संशय आहार्य एव । यद्यप्यत्र 'मुनीनां च मतिभ्रमः' इत्युक्त्या तस्यानाहार्य एव संशयो वक्तुं शक्यः, तथापि कोटितावच्छेदकयोः शिशिरत्वगगनगलितत्वयोरग्निसूर्यरूपको. टिद्वये आहार्यबोधस्यैवावश्यवाच्यतया पुरोवर्तिन्यभेदेन कोटिद्वयाभेदांशेऽपि तस्यैव न्याय्यत्वात् । इह च कोट्योधर्मिसादृश्यदाायोष्णत्व
व्यवच्छेदः । यत्र मुखरूपवस्तुनि । इदमेवाग्रे इदंपदार्थः । प्रत्यासत्तिन्यायेनाह-कवेरिति । परम्परितोऽपीति । अत्रारोपस्यारोपमात्रलेन परम्परितत्वम्, न तु संशयस्य संशयोपादेयत्वेन । दैन्यादीनां तमस्त्वादिसंदेहाविषयत्वादिति बोध्यम् । त्रिमूर्तिः ऋग्य. जुःसामात्मकः सविता । वैरीन्द्रेति । वैरिश्रेष्ठा एव वंशारण्यमित्यर्थः । जीवातुर्जीवनौषधम् । अल्पेतरा बहवः । कल्पनाः संशयाः । खगत एवेत्यवधारणमयुक्तमित्याहक्वचित्परनिष्ठोऽपीति । यद्यपि विद्वदैन्येत्युदाहृतोऽपि परनिष्ठो भवति तथापि केषामिति सामान्येन निर्देशात्स्वनिष्ठोऽपि भवतीत्यत उदाहरणान्तरमाह-गगनादिति । विभावसुरग्निः। मुनिर्वसिष्ठः । समशेत संशयं कृतवान् । अत्र गगनादिपद्ये । चोऽन्यसमुच्चायकः । तस्य वसिष्ठस्य । पुरोवर्तिनि श्रीरामे । वर्तिन्यमेदेनेति चिन्त्यम् । तस्यैव
२३ रस.