________________
रसगङ्गाधरः ।
२५५
व्यङ्ग्यतायामुदाहरणम् । यदपि तैरेव परोक्तिं दूषयित्वा स्वयं परिणामस्य
व्यङ्ग्यतायामुक्तम्
" चिराद्विषहसे तापं त्रिच चिन्तां परित्यज । नन्वस्ति शीतलः शौरेः पादाब्जनखचन्द्रमाः ॥'
अत्र चिरतापात प्रति हरिपादनखचन्द्रसद्भावप्रदर्शनेन तमेव निषेवक तन्निषेवणादयं तव तापः शान्तिमेष्यतीति परिणामो व्यज्यते" इति, तत्तु - च्छम् । 'आरोप्यमाणस्य विषयात्मकत्वेन प्रकृतकार्योपयोगे परिणामः' इति खयमेवोक्तम् । तत्र प्रकृतकार्योपयोगमात्रं न परिणामशरीरम्, अपि तु विषयिगतायाः प्रकृतकार्योपयोगिताया अवच्छेदकीभूतं विषयताद्रूप्यम् । एवं चात्र नखचन्द्रसद्भावप्रदर्शनेन तन्निषेवणादयं तव तापः शान्तिमेष्यतीति प्रकृतोपयोगिताया व्यङ्ग्यत्वेऽपि तदवच्छेदकीभूतस्य विषयिणि विषयताद्वप्यरूपस्य परिणामस्य वाक्यवाच्यत्वात् शक्यसंसर्गत्वाद्वा सर्वथैव न व्यङ्ग्यत्वं वक्तुमुचितम् ।
इदं तूदाहरणं युक्तम् -
'इन्दुना परसौन्दर्यसिन्धुना बन्धुना विना । ममायं विषमस्तापः केन वा शमयिष्यते ॥ '
अत्र वक्तुर्विरहितया व्यज्यमानरमणीवदनाभिन्नत्वेनेन्दुरभिप्रेतः । तेन रूपेणैव तस्य प्रकृतविरहसंतापशमनहेतुत्वात् । न चात्र विषयनिगरणात्मिकातिशयोक्तिर्वक्तुं शक्या । तस्या ह्यारोप्यमाणाभिन्नत्वेन विषयस्य प्रत्ययात् । यथा 'कमलं कनकलतायाम् ' इत्यादौ कनकलताभिन्नायां वनितायां कमलाभिन्नं मुखमिति । इह तु मुखस्य चन्द्राभिन्नत्वेन प्रत्यये पुनर्विरहतापशमनरूपप्रकृतकार्यसिद्धिरिति चन्द्रस्यारोप्यमाणस्य मुखरूपविषयाभिन्नत्वं मृग्यम् । तच्च व्यङ्ग्यतायामेव भवतीति परिणामध्वनिरेवायम्, नातिशयोक्तिः । अयं त्वर्थशक्तिमूलः ।
I
विभावयेति । तैरेव अप्पयदीक्षितैरेव । परोक्तिं विद्यानाथोक्तिम् । तापातं चित्तमिति शेषः । वैयाकरणमतेनाह— वाक्येति । नैयायिकमतेनाह — शक्येति । परेति । उत्कृष्टेत्यर्थः । बन्धुना विनेति । तादृशेन्दुरूपेण बन्धुनेत्यर्थः । तेनेति । तस्योद्दीप