________________
रसगङ्गाधरः।
२४७ आनन्दवर्धनाचार्यास्तु"प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्या
निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि । सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयात__ स्त्वय्यायाते विकल्पानिति दधत इवाभाति कम्पः पयोधेः ॥'
अत्र रूपकाश्रयेण काव्यचारुत्वव्यवस्थापनाद्रूपकध्वनिः" इत्याहुः । तच्चिन्त्यम् । अत्र च जलंधिकम्पहेतुत्वेन विकल्पत्रयं कल्पते । तच्च प्रकृते राजविशेष्यकां जलनिधिगतामनाहार्यविष्णुतादात्म्यज्ञानरूपां प्रान्तिमेवाक्षिपति, न रूपकम् । तज्जीवातोराहार्यविष्णुतादात्म्यनिश्चयस्य कम्पाजनकत्वात् । कविजधिगतत्वेन वैयधिकरण्याच्च । अज्ञातमेव केवलं विष्णुतादात्म्यं जलधेः कम्पेऽनुपयुक्तमेव । चमत्कारिण्यपि चात्र प्रान्तिरेवेति ध्वनिरपि तस्या एव युक्तः ।
अथास्यापि कविसमयविरुद्धतयो चमत्काराप्रकर्षका लिङ्गभेदादयो दोषाः संभवन्ति । यथा
'बुद्धिरचिर्महीपाल यशस्ते सुरनिम्नगा। .
कृतयस्तु शरत्कालचारुचन्दिरचन्द्रिका ॥' अत्र विषयविषयिणोर्लिङ्गादिकृतं वैलक्षण्यं तयोस्ताद्रूप्यबुद्धौ प्रतिकूलम् । क्वचित्कविसमयसिद्धतया चमत्कारहानिराहित्ये तु नामी दोषाः । यथा 'संतापशान्तिकारित्वाद्वदनं तव चन्द्रमाः' इत्यादौ हेतुरूपके ।
इति रसगङ्गाधरे निरूपितं रूपकप्रकरणम् ।
मिश्रितम् । तज्जीवातो रूपकजीवातोः । वैयधीति । कवी जलधौ । आहार्यविष्णुतादात्म्यनिश्चयस्तु कवाविति न तस्य तजनकखम् । सामानाधिकरण्याभावात् । केवलमित्यस्यैव व्याख्या ज्ञातमेवेति । चन्द्रालोके तु–'यत्रोपमानचित्रेण सर्वथाप्युपरज्यते । उपमेयमयी भित्तिस्तत्र · रूपकमिष्यते ॥ समानधर्मयुक्साध्यारोपात्सोपाधिरूपकम् । उत्सितक्षितिमृल्लक्षपक्षच्छेदपुरंदरः॥' साधारणधर्मविशिष्टोपमानस्य यत्रारोप इत्यर्थः । 'पृथक्कथितसादृश्यं दृश्यसादृश्यरूपकम् । उल्लसत्पञ्चशाखोऽयं राजते भुजभूरुहः ॥ स्यादअयष्टिरित्येवंविधमाभासरूपकम् । अङ्गयष्टिधनुर्वलीत्यादि रूपितरूपकम् ॥' इत्यपि दृश्यते॥
इति रसगङ्गाधरे मर्मप्रकाशे रूपकप्रकरणम् ॥