________________
२४४
काव्यमाला।
उपचरितो यथा'अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम् ।
अपि च मानसमम्बुनिधिर्यशो विमलशारदचन्दिरचन्द्रिका ॥ अत्रामृतरूपके विषये वचस्युपचरितो मधुरिमातिशयः शब्देनोपात्तः । अम्बुनिध्यादिरूपके च गाम्भीर्याद्यनुपात्तम् । केवलशब्दात्मको यथा
'अकितान्यक्षसंघातैः सरोगाणि सदैव हि ।
शरीरिणां शरीराणि कमलानि न संशयः ॥ अत्र सरोगशब्दादिरुपात एव प्रतीयते न लुप्तः । आयो बभनो द्वितीयस्तु भमः।
अयमेव साधारणो यत्र युक्तिरूपेणोपन्यस्यते तद्धेतुरूपकम् ।। यथा
'पञ्चशाखः प्रभो यस्ते शाखा सुरतरोरसौ ।
अन्यथानेन पूर्यन्ते कथं सर्वमनोरथाः॥" एवम्-
. 'प्राणेशविरहक्लान्तः कपोलस्तव सुन्दरि।
मनोभवव्याधिमत्त्वान्मृगाङ्कः खलु निर्मलः ॥' इह श्लेषेण रसचन्द्रयोः कपोले ताद्रूप्यप्रत्ययाविरूपकं निरवयवम् । हेतुस्तु त्रिषु श्लिष्ट एव । एवमन्येऽपि प्रकारा ज्ञेयाः।।
इत्यादाविति भावः । चन्दिरेति । चन्द्रेत्यर्थः । उपेति । वस्तुतो मधुरिमातिशयस्य तत्रासत्त्वात् । एवमग्रेऽपि । अनुपात्तमिति । उपचरितमिति शेषः । अङ्कितानीति। व्याख्यातमिदम् । उपात्त एवेति । एवं चैक एव मेदोऽस्य तदाह-लुप्त इति ।
अनुपात्त इत्यर्थः । अभन्नः पदावान्तरभङ्गशून्यः । भनस्तद्युक्तः । अस्य मेदान्तरमाह'अयमेवेति । केवलशब्दात्मक एवेत्यर्थः । यथेति । राजानं प्रत्युक्तिः । हे राजन् , ते पञ्चशाखः पञ्चाङ्गुलिहस्तोऽसौ कल्पवृक्षस्य शाखैवेत्यर्थः । मृगाङ्कः श्लेषेण चन्द्रो रस. विशेषश्च । तदाह-इहेति । निरवयवमिति । मिथोऽवयवावयविभावाभावादिति भावः। हेतुर्मनोभवेत्यादि बोध्यः । त्रिषु उपमानद्वये उपमेये चेत्यर्थः । श्लिष्ट एवेति। मनसिजातमदनसंबन्धिविशिष्टाधिमत्त्वं दयितायां मनोभवव्याधिरूपक्षयमन्थकत्वं (2)